SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ e वृकल्पसूत्रे मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः ४ । अपुरुषवादप्रस्तारो यथा - कोऽपि साधू रत्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जित - छिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति - नूनमेष रत्नाधिकोऽपुरुषो नपुंसको वर्त्तते, आचार्येण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम् - ममैतस्य निजकैः कथितं यदर्थं नपुंसकः प्रव्राजितो भवतेति । ततो मयाऽपि ज्ञातम् - हसितस्थितचङ्क्रमितशरीर भाषादिलक्षणैः 'अयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः ५ । दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुद्दिश्याचार्य प्रति भगति - अयं रत्नाधिको दासोऽस्ति । आचार्यैरुक्तम् - कथं जानासि ?, स प्राह- निजकैर्मम कथितं मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भाषते, इत्यादिलक्षणैः शरीरसंस्थानादिनाऽपि चास्य दासत्वमनुमीयते इत्याद्यभ्याख्यानदानं दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः ६ । एते षट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति ६ । तत्स्था प्राप्तः अथ सूत्रव्याख्या- 'इच्चेते' इत्यादि, इच्चेते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्थारे षट् कल्पस्य प्रस्तारान् पत्थारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायकः साधुः स्वदत्त - मभ्याख्यानम् सम्भं अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपूरयन् तद्वाणपत्ते सिया स्यात्, तत् प्राणातिपातादिकर्त्तर्यत्स्थानं तत्स्थानं प्रायश्चित्तस्थानं प्राप्त भवति । अयं भावः- यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दत्तं स तस्यासद् - भूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थनं कर्त्तुं न शक्नोति तदा तस्यैव अभ्याख्यान दायकस्यैव प्राणातिपातादिकर्तुरिव प्रायश्चित्तस्थानं प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्त्तव्या, तथाहिप्रथमं मार्गे रत्नाधिकं - 'भवता दर्दुरो मारितः' इति कथयित्वा ततो निवृत्त्याचार्यसमीपं तत्कथनार्थं जति तदा अभ्याख्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलघुप्रायश्चित्तं भवति, ततः परं भणने मासगुरु । तस्य भणने यदि आचार्यो यस्योपर्यभ्याख्यानं प्राप्तं तं साधुमाहूय पृच्छति - किं त्वया दर्दुरो मारितः स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूयः प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव ‘न मारितः' इति कथने तस्याभ्याख्यानदातुश्चतुर्गुरु । पुनश्वमो भणति यदि न विश्वासस्तदा तत्रोपस्थिता गृहस्थाः प्रष्टव्याः साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं दर्दुरमारणं कुर्वन् दृष्टः, इति तैः कथने षड्गुरु, साधवः समागताः कथयन्ति नापद्रावितोऽनेन दर्दुर इति तदा छेदः ।
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy