SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठोद्देशकः व्याख्यातः पञ्चमोद्देशकः, साम्प्रतं षष्ठो देशको व्याख्यायते, तत्र पूर्वगतपञ्चमोद्दे शकस्यान्तिमसूत्रेण सहास्य षष्ठोद्देशक प्रथमसूत्रस्य कः सम्बन्धः ! इत्यत्राह भाष्यकारः - 'भत्तग्गहण' इत्यादि । भाष्यम् - भत्तग्गहणं पुव्वं, कहियं तस्स य अलाभसमयम्मि । तत्थावयणं भासइ, तस्स णिसेहोऽत्थ संबंधी ॥१॥ छाया - भक्तग्रहणं पूर्वं कथितं, तस्य चालाभसमये । तत्राऽवचनं भाषते, तस्य निषेधोऽत्र सम्बन्धः ॥ १ ॥ " अवचूरी - 'भत्तग्गहणं' इति । पूर्वं पञ्चमोद्देशकस्यान्तिमसूत्रे भक्तग्रहणं कथितम् तस्य भक्तस्य च अलाभसमये साधुस्तत्र कदाचिद् अवचनं भाषते इति तस्यावचनस्यात्र षष्ठोद्देशकस्य प्रथमसूत्र निषेधः प्रतिपादितः, एष एवात्र अस्मिन् षष्ठोदेश के सम्बन्धः ॥ १ ॥ इत्यनेन सम्बन्धेनायातस्यास्य षष्ठोद्देशकस्येदमादिमं सूत्रम् - नो कप्पर इत्यादि । सूत्रम् - नो कप्पर णिग्गंथाण वा णिग्गंथीण वा इमाई छ अवयणाई वदित्तए, तं जहा - अलियत्रयणे, हीलियवयणे, खिंसियवयणे, फरुसवयणे, गारत्थियवयणे, विसवियं वा पुणो उदीरित ॥ सू० १ ॥ छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि षट् अवचनानि वदितुम्, तद्यथा - अलीकवचम्, हीलितवचनम्, खिसितवचनम्, परुषवचनम्, गार्हस्थ्यव नम्, व्युपशमितं वा पुनरुदीरितुम् ॥ सू०१ ॥ चूर्णी - 'नो कप' इति । नो कल्पते - न युज्यते णिग्गंथाण वा निर्ग्रन्थानां वा णिग्गंथीण वा निर्ग्रन्थीनां श्रमणीनां वा इमाई इमानि - वक्ष्यमाणानि छ षट् - षट्संख्यकानि अवयणाई अवचनानि, तत्र वक्तुं योग्यं वचनम् सद्वचनमित्यर्थः न वचनमित्यवचनं वदितुमयोग्यमसद्वचनादिकम् । कानि तान्यवचनानि तानि दर्शयितुमाह- 'तंजहा' तद्यथा - अलियवयणे अलीकवचनं असत्यभाषणं तथाहि असत्यवचनोच्चारणं साधुभिः साध्वीभिर्वा न कर्तव्यमिति प्रथमम् १ | हीलियवयणे हीलितवचनम्, यस्मिन् वचने उच्चारिते साधूनां गृहस्थानां वा अवहेलनं भवति, तथाहि साधुविषये हीलितवचनं यथा - साधुः सन्नपि त्वं न सम्यक्तया चारित्रं पालयसि यद्वा कस्त्वं गणिनामाऽसि - गणी भवन्नपि न त्वं किमपि जानासि, केन त्वं गणिपदे स्थापितः ? इत्यादिकथनम्, तथा गृहस्थविषये हीलितवचनं जन्मजात्याद्युद्घाटनपूर्वकमपमाननं, यथा-त्वं जन्मकुलजात्यादिहीनोऽसि इत्यादि कथनम् २ | खिंसियवयणे खिंसितवचनम् - जन्म - कर्माद्युद्घाटनपूर्वकं सरोषवचनम्, अथवा रे मूर्ख ! रे दास ! इत्यादि श्रुतिकटुवचनम् ३ । फरुसवयणे परुषवचनम् - कर्कशवचनम् रूक्षवचनमित्यर्थः रे नीच ! रे अधम ! इत्यादि ४ । गारस्थियवयणे गार्हस्थ्यवचनम् - गृहस्थस्य भावो गार्हस्थ्यं तत्सम्बन्धि तद्वचनसदृशं वचनं गार्हस्थ्यवचनम्, हे तात ! हे पुत्र ! हे मातुल ! हे भागिनेय । इत्यादि भाषणम्, " १९
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy