SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ० ५ सू० ४७-४९ पर्युषिताहारादिनिषेधः १३९ चूर्णी-'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितम् संगृहीतं प्रथमप्रहरे आनीतं चतुर्थप्रहरप्राप्त भोजनजातम् अशनादिचतुर्विधं यावत्-न्यूनान्यूनम् , तत् कियदित्याह-'तयप्पमाणमेत्तं वा' इति, त्वक्प्रमाणमात्रमपि तिलतुषत्रिभागमात्रमपि, एतच्चाशनस्य घटते। भूतिप्रमाणमात्रमपि, भूतिः-भस्म भूतिशब्देन भस्मचप्पुटिका गृह्यते तेन भूतिचप्पुटिकामात्रमपि इत्यर्थो बोध्यः संयोजिताङ्गुष्ठतर्जनीभ्यां गृहीतं द्रव्यं भूतिप्रमाणमात्रं कथ्यते, तच्च सक्तुकादीनां शुष्कचूर्णद्रव्यादीनां च घटते । तोयबिन्दुप्रमाणमात्रमपि पानकद्रव्यस्य बिन्दुप्रमितमपि परिवासितं प्रथमप्रहरस्थापितस्य चतुर्थप्रहरः प्राप्तः, तादृशम् आहारम्-किमपि भोज्यपेयपदार्थजातम् आहर्तुम् - भोक्तुं न कल्पते इति । यद्वा परिवासितं रजन्यां स्थापितं पूर्वोक्तप्रमाणमात्रमपि आहारं भोक्तुं न कल्पते । रजन्यां स्थापितवस्तुमात्रस्य मुनीनां परिभोगो न कल्पते, तस्य सन्निधिसंचयदोषापत्तेः, सन्निधिसंचये साधुत्वमपि नश्यति, उक्तञ्च-दशवैकालिकसूत्रे षष्ठाध्ययने "लोहस्सेसणुप्फासे, मन्ने अन्नयरामवि । जे सिया संनिहिकामे, गिही पव्वइए न से ॥ गा० १९॥" लोभस्य एष अनुस्पर्शः, मन्ये अन्यतरोऽपि । यः स्यात् संनिधिकामः गृही प्रव्रजितो न सः ॥ गा०१९ ॥ इतिच्छाया ॥ संक्षेपार्थः-'मन्ये' इति भगवढाक्यम् , मन्ये अहं निश्चिनोमि अन्यतरोऽपि बहूनां मध्ये एकः एषः लोभस्य अनुस्पर्शः प्रभावः, लोभस्य बहूनां प्रभावाणां मध्ये एष पूर्वोक्तः संनिधिरूप एकः प्रभावोऽस्ति, एवमहं मन्ये, अतः यः संनिधिकामः-संनिधिवाञ्छकः स्यात् सः गृही-गृहस्थ एव मन्तव्यः न तु सः प्रवजितः-साधुरिति । इत्येवं भगवद्वचनात् परिवासितमाहारजातं निर्ग्रन्थनिम्रन्थीनां भोक्तुं न कल्पते इति भावः । किं सर्वथा न कल्पते ? इत्यपवादमाह-'नन्नत्थ' इत्यादि, नान्यत्र-अन्यत्र न, केभ्यः ? इत्याह-गाढागाढेभ्यो रोगातकेभ्यः गाढागाढरोगातङ्कान् विहाय, अन्यत्र न कल्पते इत्यर्थः ॥ सू०४७॥ पूर्व परिवासिताहारनिषेधसूत्रं प्रोक्तम् , सम्प्रति परिवासितालेपननिषेधसूत्रं प्रतिपादयति'नो कप्पइ' इत्यादि । सूत्रम्-नो कप्पई निग्गंथाण वा निग्गंथीण वा परिवासिएणं आलेवणजाएणं आलिंपित्तए वा विलिंपित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहिं ।। सू०४८ ॥ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन आलेपनजातेन आलेपयितु वा विलेपयितुं वा, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४८ ॥ चूर्णी- 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेनप्रथमप्रहरगृहीतचतुर्थप्रहरप्राप्तेन आलेपनजातेन केनापि लोध्रादिनिर्मितालेपनेन आलेपयितुं
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy