SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावचूरी उ० ५ सू० २३-३३ निर्ग्रन्थया आसनमर्यादा १३३ पूर्वं निर्ग्रन्थीनां ग्रामादेर्बहिरातापना ग्रहणं निषिद्धम्, सम्प्रति तासामेव आसनाभिग्रहविशेषाणां निषेधं प्रतिपादयितुमेकादशसूत्रीमाह - 'नो कप्पर' इत्यादि । सूत्रम् - नो कप्पइ निग्गंथीए ठाणायइयाए होत्तए । सू०२३ ॥ नो कप्पइ निग्गंथीए पडमाइया होत || सू०२४ ॥ नो कप्पइ निग्गंथीए णिसज्जियाए होत्तए । ०२५ ॥ नो कपइ निग्गंथीए उक्कुडुगासणियाए ( ठाणुक्कुडियाए ) होत्तए || सू०२६ ॥ नो arus fruite वीरासणियाए होत्तए । सू०२७ ।। नो कप्पइ निग्गंथीए दंडासणिया होत्तए || सू०२८ ॥ नो कप्पइ निम्गंथीए लगंडासणियाए होत्तए । ०२९ ॥ नो atus निग्गंथी एगपासियाए होत्तए || सु०३० ॥ नो कप्पइ निग्गंथीए उत्ताणासणिया हो । ०३१ ।। नो कप्पइ निग्गंथीए ओमंथियाए होत्तए । ०३२ ॥ नो कप्पs निग्गंथीए अंबखुज्जियार होत्तए | सू० ३३ ॥ छाया - नो कल्पते निर्ग्रन्ध्याः स्थानायतिकाया भवितुम् ॥ सू०२३ ॥ नो कल्पते निर्ग्रन्याः प्रतिमा स्थायिन्या भवितुम् ॥ सू० २१ ॥ नो कल्पने निर्ग्रन्थया नैषधिकाया भवितुम् ॥ सू०१५ || नो कल्पते निर्ग्रन्थ्याः उत्कुटुकासनिकायाः (स्थानोत्कुटुकिकायाः) भवितुम् ॥ सू० १६ ॥ नो कल्पते निर्ग्रन्ध्या वीरासनिकाया भवितुम् ॥ सू० १७ ॥ नो कल्पते निर्ग्रन्ध्या दण्डासनिकाया भवितुम् ॥ सू०१८ | नो कल्पते निर्ग्रन्थया लकुटासभवितुम् ॥ १९॥ नो कल्पते निर्ग्रन्ध्या एकपार्श्विकाया भवितुम् ||सू३०|| नो कल्पते निर्मन्थ्या उत्तानासनकाया भवितुम् ।। सू०३१ ।। नो कल्पते निर्ग्रन्ध्या अवाङ्मुख्या भवितुम् ॥ ३१ ॥ नो कल्पते नित्या आम्रकुब्जिकाया भवितुम् ॥ सू० ३३ ॥ चूर्णी - 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थ्याः स्थानायतिकायाः ऊर्ध्वस्थानेन मायता स्थानायता सैव स्थानायतिका तस्याः एतादृश्या भवितुम् अवस्थातुम् | 'अमुकसमयपर्यन्तम्- कायोसर्गं करिष्यामि' इति बुध्या, पूर्वोक्ता कृत्या कायोत्सर्गं कर्तुम् न कल्पते इति भावः ॥ सू०२३ ॥ सम्प्रति प्रतिमाविषयकं सूत्रमाह - 'नो कपइ' इत्यादि । एवं नो कल्पते निर्ग्रन्ध्याः प्रतिमा एकमासिक्यादिरूपा द्वादश, तासु तिष्ठतीति प्रतिमास्थायिनी द्वादशप्रतिमारूपाभिग्रहधारीणी, तस्था भवितुं न कल्पते । मासिक्यादिप्रतिमावहनं निर्ग्रन्थीनां नोचितम्, तासां धृतिबलादिराहित्येन संयमयात्रानिर्वाहाऽसद्भावात् ॥ सू० २४ ॥ एवं नैषधिकायाः निषद्या उपवेशनरूपा उपवेशनप्रकारः, सा विद्यते यस्याः सा नैषधी, सैव नैषयिका, तस्याः निषधारूपं स्थानमाश्रित्य स्थिताया भवितुं निर्मन्ध्या नो कल्पते । निषद्या च पञ्चविधा भवति, तथाहि - समपादपुता १, गोनिषधिका २, हस्तिशुण्डिका ३, पर्यङ्का ४, अर्द्धपर्यङ्का ५, चेति । तत्र समपादपुप्ता यत्रोपविष्टायाः समौ पादौ पुतौ च स्पृशतः समपादपुता १, यस्यां गौरिवोपवेशनं भवति सा गोनिषधिका २, यस्यां पुताभ्यामुपविश्य एकं पादं हस्तिशुण्डमिवोत्थाप्य उपविश्यते
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy