SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२४ बृहत्कल्पसूत्रे माणे जाव अन्नेसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासिय परिहारट्ठाणं अणुग्घाइयं ॥ सू० ७-२ ॥ छाया -- भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः संस्तृतः विचिकित्सा समापन्नः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजनप्रति सेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घा - तिकम् ॥ सू०७-२ ॥ चूर्णी - ' भिक्खू य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः पूर्वोक्तस्वरूपः, संस्तृतः-समर्थः न तु ग्लानादिः स विचिकित्सासम्पन्नः 'किमुदितोऽनुदितो वा सूर्यः ?, यद्वा किमस्तं गतः सूर्योऽनस्तं गतो वा' इत्येवं संशयमारूढः सन् अशनं वा ४ - अशनादिचतुर्विधमाहारं प्रतिगृह्य-गृहस्थगृहादानीय आहारम् - तदानीतमाहारम् अहरन् भुञ्जानः 'जाव' इति यावत्, यावत्पदेन पूर्वोक्तः पाठोऽत्र संग्राह्यः तथाहि - 'अह पुच्छा' इत्यादि, अथ पश्चात् जानीयात् अनुगतः सूर्यः अस्तमितो वा, तदा स यच्च आस्ये - मुखे, यच्च पाणौ हस्ते, यच्च प्रतिग्रहे पात्रे वर्तते तद् विविञ्चन् - परिष्ठापयन् वा विशोधयन् मुखहस्तपात्रादिकं निर्लेपं कुर्वन् वा स नो अतिक्रामति भगवदाज्ञां नोल्लङ्घयति, यदि पुनः तद् अशनादि आत्मना - स्वयं भुञ्जानः, इत्येत्पर्यन्तः पाठः यावत्पदग्रायः, 'अन्नेसिं वा' इत्यादि, अन्येभ्यो वा ददानः स रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् ॥ सू० ७-२ ॥ पूर्वं संस्तृतस्य विचिकित्सास मापन्नस्य प्रायश्चित्तं प्रोक्तम्, सम्प्रति असंस्तृतस्य निर्विचि - कित्सितस्य प्रायश्चित्तमाह-' भिक्खू य' इत्यादि । सूत्रम् - 'भिक्खू य उग्गयवित्तिए अणत्थमियसं कप्पे असंथडिए निव्वितिगिच्छे असणंव पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडि सेवणप्पत्ते आवज्जइ चाउम्मासि परिहारट्ठाणं अणुग्धायं ॥ सू० ८-३॥ छाया - - भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतः निर्विचिकित्सः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजन प्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्वातिकम् ।। सू० ८-३ ॥ चूर्णी - भिक्खू' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः दिवसमात्रभोजीत्यर्थः स असंस्तृतः--असमर्थः ग्लानत्वादियुक्तः अध्वविहारखिन्नः क्षपकः मासक्षमणादितपोयुक्तो वा निर्विचिकित्सः विचिकित्सारहितः -- सूर्योदय--सर्यानस्तमितरूपसंशयवर्जितः सूर्य उगतः
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy