SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाष्यावचूरी उ० ५ ० २-५ निर्ग्रन्थनिर्ग्रन्थीनां देवदेवीकृतोपसर्गवर्णनम् १२१ चूर्णी - 'देवे य पुरिसरूवं' इति । देवश्च तृणादिमयोपाश्रये निवसन् कश्चिद्देवो व्यन्तरादिः पुरुषरूपं - रमणीयपुरुषाकृर्ति विकुर्व्य स्वविकुर्वणाशक्त्या निष्पाद्य निर्ग्रन्थीं तत्रोपा वसन्तीं साध्वीं प्रतिगृह्णीयात् स्वशरीरबाहादिना समालिङ्गेत् तच्च प्रतिग्रहणम् - पुरुषालिङ्गनं यदि निर्ग्रन्थी स्वादयेत् -'सुखदोऽयं पुरुषशरीरस्पर्शः' इत्येवमनुमोदयेत् तदा सा निर्ग्रन्थी मैथुनप्रति - सेवनप्राप्ता अनासेवितमैथुनाऽपि समापन्नमैथुन सेवनदोषा सती आपद्यते - प्राप्नोति चातुर्मासिकं अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् निर्ग्रन्थीनां परिहारतपो न भवतीति कृत्वा 'परिहार द्वाणं ' इतिपदं निर्ग्रन्थीसूत्रे न प्रोक्तमिति ॥ सू० २ ॥ पूर्व निर्ग्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्गों वर्णितः, सम्प्रति निर्ग्रन्थमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्गं प्रतिपादयितुमाह - 'देवी य इस्थिरूवं' इत्यादि । सूत्रम् - देवी य इथिरूवं विउव्वित्ता निग्गंथं पडिग्गाहिज्जा तं च निग्गंथे साइज्जेज्जा, मेहुणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घा -- इयं ॥ सू० ॥ ३ ॥ छाया - देवी च स्त्रीरूपं विकुर्व्य निर्ग्रन्थं प्रतिगृह्णीयात्, तच्च निर्ग्रन्थः स्वादयेत् मैथुन प्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥सू० ३॥ " चूर्णी - 'देवी य इथिरूवं' इति । देवी च स्त्रीरूपं - ललितस्त्रीरूपं विकुर्व्य स्ववै - क्रियशक्त्या संपाद्य निर्ग्रन्थं प्रतिगृह्णीयात् स्वशरीरबाहादिना आलिङ्गेत्, तच्च प्रतिग्रहणं स्त्रीशरीरालिङ्गनं स्वादयेत्-‘मनोमोदजनकोऽयं स्त्रीस्पर्शः' इत्येवमनुमोदयेत् तदा स निर्ग्रन्थः मैथुनप्रतिसेवनप्राप्तः-अनासेवितमैथुनोऽपि मैथुन सेवनजन्यदोषसंपन्नः सन् आपद्यते - प्राप्नोति चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् - चतुर्गुरुरूपं प्रायश्चित्तम् ॥ सू० ॥ ३ ॥ पूर्व निर्ब्रन्थमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्गो वर्णितः, सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुष - रूपेण देवीकृतोपसर्गं प्रतिपादयितुमाह - 'देवी य पुरिसरूवं' इत्यादि । सूत्रम् -- देवीय पुरिसख्वं विउव्वित्ता निग्गथिं पडिग्गाहिज्जा तं च निग्गंथी साइज्जेज्जा, मेहुणपडि सेवणपत्ता आवज्जइ चाउम्मासि अणुग्धायं || सू० ४ || छाया - देवी च पुरुषरूपं विकुर्व्य निर्ग्रन्थीं प्रतिगृह्णीयात् तच्च निर्ग्रन्थी स्वादयेत् मैथुनप्रति सेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ सु० ४॥ , चूर्णी - देवी य पुरिसरूवं' इति । देवी च पुरुषरूपं पुरुषाकृति विकुर्व्य स्ववैक्रियशक्त्या नवयौवनसंपन्नां संपाद्य निर्ग्रन्थीं तत्रोपाश्रयस्थितां साध्वीं प्रतिगृह्णीयात् - स्वशरीरभुजादिना समालिङ्गेत्, तच्च प्रतिग्रहणं समालिङ्गनं निग्रन्थी साध्वी स्वादयेत् - 'सुखजनकोऽयं पुरुषस्पर्शः' इत्येवमनुमोदयेत् तदा सा मैथुन प्रतिसेवनप्राप्ता - अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषसंपन्ना सती आपद्यते - प्राप्नोति चातुर्मासिकम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तम् ॥ सू० ४ ॥ १६
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy