SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११२ पृहत्कल्पस्ने अशननिमित्तं पानाय वा पानीयनिमित्तं भक्तपानार्थमित्यर्थः निष्क्रमितुं निर्गन्तुम् उपाश्रयाद् बहिनिस्सते वा गृहस्थगृहान्तः प्रवेशं कर्तुं नो कल्पते इति पूर्वेण सम्बन्धः । एवम् बहिः उपाश्रयाद् बहिःप्रदेशे विचारभूमि संज्ञामि वा विहारभूमि-स्वाध्यायभूमि वा निष्क्रमितुम् उपाश्रयाद् बहिः संज्ञार्थं गन्तुम्, प्रवेष्टुं वा उपाश्रयान्तः प्रवेशं कर्तुम्, तथा ग्रामानुग्रामं द्रोतुं विहतुम् , एवं गणात् स्वगच्छात् गणम् अन्यं गच्छं संक्रमितुं संक्रमणं कर्तुं नो कल्पते इति पूर्वेण सम्बन्धः । तथा वर्षावासं चातुर्मासाथै वस्तुं नो कल्पते । तर्हि किं कर्त्तव्यमित्याह-'जत्थेव' इत्यादि यत्रैव यस्मिन् स्थाने आत्मनः स्वस्य आचार्यम् उपाध्यायम् , कीदृशमित्याह-बहुश्रुतंछेदशास्त्रनिपुणम् , बह्वागमम् अर्थतोऽनेकागमाभिज्ञ पश्येत् तस्य अन्तिके समीपे आलोचयेत् स्वापराधं वचसा प्रकाशयेत् प्रतिक्रामेत्, स्वापराधविषये मिथ्यादुष्कृतं दद्यात्, निन्द्यात्, आत्मसाक्षिकतया स्वापराधस्य निन्दां कुर्यात् , गहेंत गुरुसाक्षिकतया जुगुप्सेत् । निन्दनं गर्हणं च वास्तविकं तदा भवेद् यदा तस्य पुनः करणतो निवर्तेत, अत आह-'विउद्देज्जा' इति व्यावर्तेत-तादृशापराधान्निवृत्तो भवेत् । निवृत्तावपि कृतपापात्तदा मुच्येत यदा आत्मनो विशोधिर्भवेत् अत आह-'विसोहिज्जा' इति विशोधयेत् आत्मानं पापमलप्रक्षालनेन निर्मलं कुर्यात् । विशुद्धिश्च पुनरकरणतया संभवति अत आह-'अकरणयाए अब्भुटेज्जा'इति, अकरणतया पुनरकरणप्रतिज्ञया अभ्युत्तिष्ठेत् अभ्युत्थितो भवेत् समुद्यतः स्यात् , पुनरकरणतया अभ्युत्थानेऽपि विशुद्धिस्तु प्रायश्चित्ताभ्युपगमेनैव भवतीत्यतः आह-'अहारिहं' इति यथार्ह यथायोग्यम् अपराधानुसारं तपःकर्म अनशनादिरूपं प्रायश्चित्तंछेदादिकं प्रतिपद्यते-स्वीकुर्यात् । ‘से य' इति तदपि च प्रायश्चित्तं श्रुतेन श्रुतमधिकृत्य श्रुतानुसारेण यदि प्रस्थापितं समारोपितं दत्तं भवेत्तदा आदातव्यं ग्रहीतव्यं स्यात ग्राह्यं भवेदित्यर्थः, 'से य' तच्च यदि श्रुतेन श्रुतानुसारेण नो प्रस्थापितं न दत्तं भवेत्तदा नो आदातव्यं स्यात् ग्राह्यं न भवेत् । ‘से य' इति-अथ च स आलोचको यदि श्रुतेन श्रुतानुसारेण प्रस्थाप्यमानं दीयमानमपि तत् तपःकर्म प्रायश्चितं नो आददाति-न स्वीकरोति न प्रतिपद्यते तदा स आलोचकः साधुः निर्वृहितव्यः 'अन्यत्र गत्वा शोधिं कुरुष्व' इति कथयित्वा स प्रतिषेधनोयः स्वसमीपात् पृथक् करणीयः स्यात् भवेदिति ॥ सू० ३० ॥ पूर्वमधिकरणकर्त्तः प्रायश्चित्तप्रकारः प्रदर्शितः, तच्च प्रायश्चितं समर्थस्य प्रथमसंहननादि गुणयुक्तस्य परिहारतपोरूपमेव प्रायश्चित्तं दातव्यं, न तु शुद्धतपोरूपमिति परिहारतपोवहमानस्य का मर्यादा ! का च सामाचारी ? इति जिज्ञासायां परिहारतपोवाहकस्य विधिमाह-'परिहारकप्पट्ठियस्स णं' इत्यादि । सूत्रम्-परिहारकप्पट्ठियस्स णं भिक्खुस्स कप्पइ आयरिय-उवज्झाएणं तद्दिवसं एगगिहंसि पिंडवायं दवावित्तए, तेण परं णो से कप्पइ असणं वा पाणं वा
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy