SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ चूर्णिमायावचूरी उ० सू०२७-२९ गणावच्छेदकस्यान्याचार्योपाध्यायस्वीकरणविधिः १०९ छाया - गणावच्छेदकश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुम् नो तस्य कल्पते गणावच्छेदकत्वम् अनिक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य गणावच्छेदकत्वं निक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आपृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, ते च तस्य वितरेयुः एवं तस्य कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयतुम्, नो तस्य कल्पते तेषां कारण अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥सू० २७ ॥ चूर्णी - 'गणावच्छेयए य' इति । गणावच्छेदकश्च यदि इच्छेत् अभिलषेत्, किमित्याह - अन्यम् अन्यगच्छवर्तिनम् आचार्योपाध्यायम् उद्देशयितुम् स्वस्य गुरुत्वेन व्यवस्थापयितुं तदा तस्य नो कल्पते गणावच्छेदकत्वं स्वकीयगणावच्छेदपदवीम् अनिक्षिप्य कस्मैचिद् असम अन्यमाचायपाध्यायम् उद्देशयितुम्, कल्पते तस्य गणावच्छेदकत्वं स्वपदवीरूपं गणावच्छेदकत्वप्रयुक्तकार्यभारं निक्षिप्य स्वसंघे कस्मैचित् समर्प्य अन्यमाचार्योपाध्यायमुद्देशयितुं कल्पते इति पूर्वेण सम्बन्धः । शेषम् सर्वं सूत्रं भिक्षुसूत्रवदेव व्याख्येयम् । एवं च गणावच्छेदकस्य गणविभागकारकत्वेन ज्ञानादिनिमित्तमन्यगणगमनादिकर्त्तुस्तस्य स्वगणनिक्षेपणं संविग्नाचार्येषु कर्त्तव्यं युज्यते, यदि तु संविग्नाचार्या विषीदन्तो भवेयुस्तदा स्वगणं गृहीत्वा गच्छान्तरगमनादिकं कुर्यात्, न तु तेषां विषीदतां संविग्नाचार्याणामन्तिके स्वगणं निक्षिपेत्, अन्यथा - गणस्य तेषु निक्षेपणे चारित्रस्स्वलनादिकं भवेदिति विवेकः ।। सू० २७ ॥ पूर्वं गणावच्छेदकस्य ज्ञानादिवृद्ध्यर्थं गच्छान्तरस्थमाचार्योपाध्यायमात्मन आचार्योपाध्यायत्वेन व्यवस्थापनविधिः प्रदर्शितः, सम्प्रति आचार्योपाध्ययस्य तद्विधिं प्रदर्शयति- 'आयरियउ - वज्झाए य' इत्यादि । सूत्रम् - आयरिय-उवज्झाए य इच्छिज्जा अन्नं आयरियउवज्झायं उद्दिसावित्तए नो से कप्पइ आयरियउवज्झायत्तं अणिक्खिवित्ता अण्णं आयरियउवज्झायं उद्दिसा क्तिए, कप्प से आयरियउवज्झायत्तं णिक्खिवित्ता अण्णं आयरियउवज्झायं सावित् णो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणात्रच्छेयगं वा अण्णं आयरियउवज्झायं उद्दिसावित्तए, कप्प से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं आयरियउवज्झायं उद्दिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पर अण्णं आयरियउवज्झायं उद्दिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आयरियउवज्झायं उद्दिसावित्तए, नो से कप्प तेसिं कारणं अदीवित्ता अण्णं आयरियउवज्झायं Starfare, as से तेसिं कारणं दीवित्ता अण्णं आयरियउवज्झायं उद्दिसावित्त ॥ ०२८ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy