SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चूर्ण-भाव उ० ४ सू० १५-१७ अशनादेः कालक्षेत्र मर्यादाविधिः ९५ छाया - निर्ग्रन्थ च खलु ग्लायन्तं माता वा भगिनी वा दुहिता वा परिष्वजेत् तं च निर्ग्रन्थः स्वादयेत्, मैथुनप्रति सेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुधातिकम् ॥ सु० १५ ॥ चूर्णी - 'निग्गंथं च णं' इति । निर्ग्रन्थं साधुं च खलु ग्लायन्तं रोगादिना शरीरक्षीणत्वेन ग्लानिमनुभवन्तं माता वा तस्य सांसारिकमाता निर्ग्रन्थीभूता वा माता, भगिनी वा सांसा - रिकभगिनी निर्ग्रन्थीभृता वा भगिनी, दुहिता वा सांसारिकपुत्री निर्धन्थीभूता पुत्री वा परिध्वजेत् भूमौ पतन्तं धारयन्ती उपवेशयन्ती उत्थापयन्ती वा साधुशरीरे स्पृशेत् शरीरस्पर्श कुर्यात्, तं च स्पर्श निग्रैन्थः मैथुन प्रतिसेवनप्राप्तः मैथुन सेवनेच्छां प्रतिपन्नः सन् स्वादयेत् मैथुनसेवनभावनया अनुमोदेत ‘सुखदोऽयं स्त्रीस्पर्शः' इति कृत्वा मनसि हर्षे कुर्यात् तदा स निर्ग्रन्थः चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकप्रायश्चित्तभागी भवतीति भावः ॥ सू० १५ ॥ पूर्वं ब्रह्मचर्यपरिणामरूपस्य भावस्यातिचारवारणाय श्रमण्याः पुरुषस्पर्शप्रतिषेधः, श्रमणस्य स्त्रीस्पर्शप्रतिषेधश्च प्रतिपादितः, सम्प्रति - अशनादेः कालातिक्रमस्यातिचारं प्रतिषेधितुमाह- 'नो कप्पइ' इत्यादि । सूत्रम् - नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा असणं वा पाणं वा खाइम वा साइमं वा पढमाए पोरिसीए पडिग्गाहित्ता पच्छिमं पोरिसिं उवाइणावित्तए, से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुंजिज्जा, नो अन्नेसिं अणुप्पएज्जा, एगंते बहुफासुए थंडिले पडिलेहित्ता पमज्जित्ता परिद्ववेयव्वे सिया, तं अपणा भुंजमाणे अन्नेसिं वा दलमाणे आवज्जइ चाउम्मासियं परिहारद्वाणं उग्घा - इयं ॥ सू० १६ ॥ छाया -नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिर्मा पौरुषीम् उपानेतुम्, तच्च आहत्य उपानायितं स्यात् तद् नो आत्मना भुञ्जीत न अन्येभ्यः अनुप्रदद्यात् एकान्ते बहुप्रासुके स्थण्डिले प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यात्, तद् आत्मना भुज्जानः अन्यस्मै वा ददानः आपद्येत चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू० १६ ॥ चूर्णी - 'नो कप' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा श्रमणश्रमणीनां 'असणं वा' इत्यादि अशनादिकं चतुर्विधमाहारं प्रथमायां पौरुष्यां प्रतिगृह्य गृहीत्वा प्रथमपौरुष्यामानीतमशनादिकं पश्चिमां चतुर्थी पौरुषीम् 'उवाइणावित्तए' उपानाययितुम् उल्लङ्घयितुम् न कल्पते इति पूर्वेण सम्बन्धः प्रथमपौरुष्यां गृहीतमशनादिकं पौरुषीत्रयमुल्लङ्घय अन्तिमायां चतुर्थ्यां पौरुष्यां न भोक्तव्यमित्याशयः । यद्येवं भवेत्तदा किं कर्तव्यमित्याह - ' से य आहच्च '
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy