SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चूर्ण भाष्यावचूरो उ० ४ सू० १०-११ वाचनादानयोग्यायोग्यस्वरूपम् ९१ एवमेव एते त्रयः संवासयितुम् - स्वसमीपे निवासयितुम् उपवेशयितुमपि श्रमणानां न कल्पन्ते । एवं च पण्डकादयः कदाचिद् अनाभोगादिना प्रव्राजिता भवेयुः पश्चाद् विज्ञाताद् भवेयुस्तदापि तेषामेतत्सूत्रोक्तस्य शेषपञ्चकस्य - मुण्डापन - शिक्षापणो - पस्थापन - संभोजन-संवासन - लक्षणस्य समाचरणं न कर्त्तव्यमिति भावः । एवं प्रव्राजनवत् पण्डकादित्रयस्य मुण्डापनादिपञ्चकं समाचरति श्रमणस्तदा प्रत्राजनरूपे पूर्वोक्तपदे प्रोक्ताः प्रवचनोड्डाहानिन्दादयो दोषा अत्रापि अवगन्तव्या इति ॥ सू० ९ ॥ पूर्व पण्डकादित्रयस्य प्रव्राजनादिषट्कं निषिद्धम्, साम्प्रतमविनीतादित्रयस्य वाचनादानं प्रतिषेधितुमाह — 'तओ नो कप्पंति' इत्यादि । सूत्रम - तओ नो कप्पंति वाइत्तए, तंजहा - अविणीए विगइपडिबद्धे अविओसविपाहुडे ॥ सू० १० ॥ छाया-त्रयो नो कल्पन्ते वाचयितुम्, तद्यथा-- अविनीतः, विकृतिप्रतिबद्धः, अव्यवशमितप्राभृतः ॥ सू० १० ॥ चूर्णी - 'ओ' इति । त्रयस्तावत् वक्ष्यमाणाः नो कल्पन्ते श्रमणानां 'वाइए' इति वाचयितुम् सुत्रवाचनां दातुम् अर्थ वा बोधयितुम् तदुभयं वा तथथा - 'अविणीए' इत्यादि, अविनीतः आचार्यादेः पर्याय जेष्ठस्य वा अभ्युत्थानसत्कारसंमानादिविनयवर्जितः १, विकृतिप्रतिबद्धः विकृतिः–दधिदुग्धघृतादिरसरूपा, तत्र प्रतिबद्ध : - लोलुपः २, अव्यवशमितप्राभृतःअव्यवशमितम्-अनुपशान्तं प्रामृतमिव प्राभृतं नरकपातन कुशलं तीव्रक्रोधलक्षणं येन स तथा, यः परुषभाषणाद्यपराधेऽपि परमं क्रोधमावहति क्षमितमप्यपराधं यो वारं वारमुदीरयति स अव्यवशमितप्राभृतः प्रोच्यते तीव्रक्रोधी इत्यर्थः ३ । एते त्रयः पुरुषाः सूत्रार्थतदुभयवाचनां दातु श्रमणानां नो कल्पन्ते इति सूत्रार्थः । एतेषां वाचनादाने इमे दोषाः सम्भवन्ति – यः खलु अविनीतः श्रुतज्ञानरहितोऽपि अहंकारी भवति तदा किं पुनस्तस्य श्रुतलाभे १ । स्वयं नष्टस्य तस्य अन्यानपि नाशयिष्यतः श्रुतप्राहणं क्षते क्षारावसेकन्यायेन ऊषर भूमि बीजवपनन्यायेन च इहपरलोकाहितकरं भवति ततस्तादृशाय अविनीताय श्रुतग्राहणं नोचितमेव यथा भुजङ्गस्य पयःपानं विषवर्द्धकमेव भवति तथैव दुर्विनीतस्य श्रुतप्रदानमपि अधिकतर दुर्विनीततामेव वर्द्धयति, अतितप्ततैलादौ जलावसेकः ज्वलत्यग्नौ घृतदानं च अग्निज्वालावर्द्धकमेव भवति अतो भगवता दुर्विनीताय श्रुतदानं निषिद्धमिति १। विकृतिप्रतिबद्धस्य वाचनादाने दोषा प्रदश्यन्ते - यः कश्चित् शरीरेण ढोsपिरलोलुपतया विकृतावेव लोलुपत्वेन तत्र प्रतिबद्धमनस्कतया न सुचारुरूपेण वाचनां गृह्णाति, मनसो विकृतौ प्रतिबद्धत्वेन स श्रुतग्रहणे मनोयोगं दातुं न शक्नोति, मनोयोगं विना श्रुतग्रहणं न फलति । न स तपश्चरणं करोति, न तपो विना गृह्यमाणं श्रुतं मनोऽनुकूलं फलं प्रयच्छति प्रत्युत प्रभूतमनर्थं प्रसूते तस्मात् विकृतिप्रतिबद्धं शिष्यं सूत्रार्थतदुभयं न वाचयेदिति
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy