SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चूर्णि भ्राच्या ऽवचूरी उ० ४ सू० २ पाराञ्चिक-स्वरूपम् ८५ पूर्वसूत्रे अनुद्धाताख्यगुरुकारोपणा प्रोक्ता, सम्प्रतमपि गुरुकाया एव पाराञ्चिकाख्यारोपणां प्रतिपादयितुमाह, अथवा पूर्वसूत्रे तपोऽर्हा शोधिः प्रौका, इदानीं छेदार्हा शोधिः प्रतिपाद्यते - 'ओ' इत्यादि । सूत्रम् - तो पारंचिया पण्णत्ता, तं जहा दुट्ठे पारंचिए १, प्रमते पारंचिए २, अन्नमन्नं करेमाणे पारंचिए ३ ॥ सू० २ ॥ छाया - त्रयः पाञ्चिकाः प्रज्ञप्ता, तद्यथा- दुष्टः पाराञ्चिकः १, प्रमत्तः पाराञ्चिकः अन्योन्यं कुर्वाणः पाराञ्चिकः ॥ सु० २ ॥ २, - " 1 चूर्णी - 'तओ' इति । त्रयः त्रिसंख्यकाः पाराञ्चिकाः पाराञ्चिकप्रायश्चित्तयोग्याः प्रज्ञप्ताः तीर्थकरादिभिः प्ररूपिताः । पाराञ्चिक इति कोऽर्थस्तत्राह - येन प्रायश्चित्तेन परिशोधितेन श्रमणः पारं संसारसमुद्रस्य तीरम् मोक्षरूपम् अञ्चति - गच्छति तत् पाराश्चिकम् अस्य प्रायश्चितस्य शुद्धभावतः परिशोधनेन श्रमणो मोक्षमाप्नुयादिति भावः । एतत्प्रायश्चित्तापन्नत्वेन उपचारात् श्रमणोऽपि पाराञ्चिकः कथ्यते । अथवा शोधिरूपस्य प्रायश्चित्तस्य पारं पर्यन्तमञ्चल गच्छति यत्तत् पाराञ्चिकं अपश्चिममनुत्तरं वा प्रायश्वितं पाराश्चिकं व्यपदिश्यते । के ते त्रयः पाराञ्चिकाः ? इत्याह- 'तंजहा, इत्यादि, तद्यथा - ते यथा - दुष्टः पाराञ्चिकः प्रथमः १, प्रमत्तः पाञ्चिको द्वितीयः २, अन्योन्यं कुर्वाणः पाराञ्चिकस्तृतीयः ३ । तत्र दुष्टो - द्विविधः कषायदुष्टो विषयदुष्टश्च, एकः कषायमाश्रित्य दुष्टो भवेत्, द्वितीयो विषयमिन्द्रियविषयमाश्रित्य दुष्टो भवेत्, सद्विविधोऽपि दुष्टः पाराञ्चिकप्रायश्चित्तयोग्यो भवति १ । द्वितीयः प्रमत्तः पाराञ्चिकः प्रमादमाश्रित्य पाराञ्चिकप्रायश्चित्तयोग्यो भवति, अयं स्त्यानर्द्धिनिद्रावशात् मांससेवी, पञ्चेन्द्रियवधकारी, मद्यसेवी च भवतीति प्रमत्तः पाराञ्चिकः कथ्यते २ | तृतीयः अन्योन्यं कुर्वाणः अन्योन्यमिति परस्परं साधुः साधुना सह मैथुनचेष्टां कुर्वाणः निर्ग्रन्थी निर्मन्ध्या सह मैथुनब्रेष्ठां कुर्वाणा च । एते पूर्वोक्तायोऽपि पाराश्चिकप्रायश्चित्तभागिनो भवन्तीति । भत्रेयं छेदार्हा शोधिरभिहिता, छेदस्तावत् द्विविधः - देशतः सर्वतश्च, तत्र पञ्चरात्रिन्दिवादिकः षण्मासान्तश्छेदो देशतश्छेद उच्यते सर्वच्छेदस्त्रिविधःमूलाऽनवस्थाप्यपाराञ्चिकभेदात् अत्र पाराञ्चिकच्छेदस्याधिकारः, स च द्वादशवार्षिकं तपोऽनुष्ठानं कारयित्वा गृहस्थवेषं दत्त्वा पुनर्नूतनदीक्षाप्रदानरूपो भवति । पाराश्चिको द्विविधो भवति - आशातनापाराञ्चिकः प्रतिसेवनापाराञ्चिकश्च तत्र - आशातनापाराञ्चिक:-- तीर्थकर प्रवचन श्रुताचार्यगणधरम हर्द्धि कादीनामत्याशातकः, तत्र तीर्थकराशातना यथा -- तीर्थकरो हि यद् देवरचितसमवसरणाष्टमहाप्रातिहार्यादिलक्षणां प्राभूति कामनुमन्यते तन्न वरम्, यः केवला लोकेन भवस्वरूपं जानन्नपि किमिति विपाकदारुणामेतादृशीं भोगसामग्रीं भुङ्क्ते : इति । तथा मल्लिनाथस्य स्त्रीशरीरस्यापि यत्तीर्थमुच्यते तदप्यतीवायुक्तम्, स्त्रीतीर्थं न भवतीति शास्त्रे श्रूयते इति । तथा सर्वोपायकुशला अपि तीर्थकस मामनगरादौ विद्वत्य विद्वत्यातीव दुश्वरां देशनां "
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy