SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पस्त्रे तेषां निम्रन्थनिर्ग्रन्थीनां कल्पते द्वितीयमपि वारम् अवग्रहम् अनुज्ञाप्य, प्रथमवारं तावद् अवग्रहो यदा शय्यासंस्तारकं गृहीतं तदा अनुज्ञापितः, तदनन्तरं यदा विप्रणष्टं सत् अनुगवेष्यमाणमपि नोपलब्धं तदा तत्स्वामिने निवेदने कृते सति यद्यसौ गृहस्थः अन्यत् शय्यासंस्तारकं साधवे' प्रयच्छति तदा, अथवा तदेव यद् विप्रणष्टं शय्यासंस्तारकं तत्स्वामिना लब्धं तदा च तद्विषयकमवग्रहं द्वितीयवारमपि अनुज्ञाप्य परिहारं परिभोगलक्षणं शय्यासंस्तारकं गृहीत्वा परिहत्तुं परिभोक्तुं कल्पते इति पूर्वेण सम्बन्धः । वसतौ शून्यायां कृतायां शय्यासंस्तारकं नक्ष्यतीति मत्वा श्रमणेन प्रथमत एव वसतिः शून्या न कर्त्तव्या सदा सावधानेन भाव्यम्, वसतिशून्यत्वकरणे श्रमणस्य प्रमादः सिध्यतीत्यतः श्रमणेन नित्यमप्रमत्तेन भवितव्यमिति भावः ॥ सू० २५ ॥ पूर्व सागारिकसत्कं शय्यासंस्तारकं प्रत्यर्प्य श्रमणैविहारः कर्त्तव्यः इति प्रोक्तम् , तथा यदि चौरैः शय्यासंस्तारकं चोरितं तदा द्वितीयवारमवग्रहं गृहीत्वा शय्यासंस्तारकमानेतव्यमिति च प्रोक्तम् , साम्प्रतं पूर्वस्थिताः साधवस्तत् शय्यासंस्तारकं विप्रजहति तदक्सरेऽन्ये श्रमणा आगच्छन्ति तदा तद्विषयकमवग्रहकालं प्रतिपादयन्नाह-जद्दिवस' इत्यादि। सूत्रम्-जद्दिवसं समणा निग्गंथा सेज्जासंथारय विप्पजहंति तदिवसं अवरे समणा निग्गंथा हव्वमागच्छेज्जा सच्चेव उग्गहस्स पुवाणुण्णवणा चिट्ठइ अहालंदमवि उग्गहे ॥ सू० २६॥ छाया-यं दिवसं श्रमणा निर्ग्रन्थाः शय्यासंस्तारकं विप्रजहति तं दिवसम् अपरें श्रमणा निर्ग्रन्था हव्यमागच्छेयुः सैव अवग्रहस्य पूर्वानुवापना तिष्ठति यथालन्दमपि अवग्रहः ॥ सू० २६.॥ चूणी-जदिवस' इति । य दिवसमधिकृत्य यस्मिन् दिवसे इत्यर्थः, श्रमणा निर्ग्रन्था में पूर्व तत्रोपाश्रये स्थितास्ते मासकल्पसमाप्त्यनन्तरं चातुर्माससमाफ्यनन्तरं वा अय्यासंस्तारकं स्वावग्रहेणानीत पीठफलकादिकं तद् विप्रजहति त्यजन्ति तं दिवसमधिकृत्य तस्मिन् दिवसे इत्यर्थः अपरे अन्ये साधर्मिकाः श्रमणा निर्ग्रन्था हव्यं-शीघ्र तत्कालमेव आगच्छेयुः उपाश्रये प्रविशेयुस्तदा सा एव या पूर्वस्थितैः श्रमणगृहीता अवग्रहस्य निवसनाधिकारस्य पूर्वानुज्ञापना पूर्व याऽनुज्ञापना गृहीता भवेत् सा एव तदुपाश्रयविषया तिष्ठति, ये एव पूर्वस्थिताः श्रमणा यस्मात् उपाश्रयाद् निम्रतास्तेषामेवाधिकारे स उपाश्रयस्तिष्ठतीति भावः । कियन्तं काल यावदवग्रहस्य पूर्वानुज्ञापना तिष्ठति ? तत्राह—यथालन्दमपि अवग्रहस्तिष्ठति । अत्र मध्यमोऽष्टपौरुषीप्रमाणो यथालन्दकालो गृह्यते इति अष्टपौरुषीकालं यावत् पूर्वस्थितश्रमणानामेवावग्रहे स उपाश्रयस्तिष्ठति तत एतावत्कालपर्यन्तमपरे समागता निम्रन्थाः उपाश्रयस्वामिनोऽवग्रहमयाचित्वाऽपि तत्र स्थातुं पीठफलकादिकमुपभोक्तुं वाऽहन्ति, तदनन्तरं तैरपरोऽवग्रहो याचितव्यो भवेदिति भावः ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy