SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ० ३ सू० १९-२० गृहस्थगृहान्तःस्थानादिनिषेधः ७१ छाया—कार्य च मोक्षो विनयश्च हेतुः । निष्कारणात् नास्तीह कार्यसिद्धिः ।। तस्माद् उपाय तथा कारणं च,। अवलम्ब्य प्राप्नोति कार्यसिद्धिम् ॥ ९॥ अवचूरी-'कन्जं च' इति । इह श्रमणध निर्ग्रन्थस्य कार्य मोक्षः, तस्य हेतुरिति कारणं च विनयः, इति तयोः कार्यकारणभावः, तस्मात् निष्कारणात् कारणमन्तरेण उपायमन्तरेण च इह लोके कार्यसिद्धिर्नास्ति न भवति, तस्मात् कारणात् उपायं तथा कारणं चावलम्ब्यैव कार्यसिद्धिःजीवः प्राप्नोति । तथाहि-यस्य कार्यस्य यद् उपादानं कारणं तेन विना तत्कार्य न सिध्यति यथा मृत्पिण्डमन्तरेण घट इतिः, उपादानकारणसद्भावेऽपि उपायरूपनिमित्तकारणाभावे कार्य न सिध्यति यथा मृत्पिण्डसद्भावेऽपि चक्रचीवरोदकादिनिमित्तकारणमन्तरेण घटो न निष्पाद्यते अतो यः पुनरुपायरूपनिमित्तकारणवान् प्रयत्नशीलश्च भवति स उपादानकारणम् उपायरूपनिमित्तकारणं चावलम्ब्यैव कार्य साधयति, तथैवात्र मोक्षकार्यस्योपादानकारणं सर्वविरतिमान् आत्मैव, विनयादिनिमित्तकारणैर्विना नोपादानकारणं मोक्षत्वेन परिणमति-यथा मृत्पिण्डश्चक्रवीवरोदकाद्यभावे घटत्वेन नो परिणमति, अतो निर्ग्रन्थेन विनयः समासेवनीय इति ॥ ९ ॥ पूर्व कृतिकर्मविधौ विनयः सविस्तरं प्रदर्शितः, विनयवांश्च तादृशमविनयजनकं किमपि कार्य न करोति, गृहान्तराले स्थानादिकारणे च गृहस्थस्याविनयो भवतीति गृहान्तराले स्थानादिकरणस्य निषेधसूत्रमाह-'नो कप्पइ० अन्तरागिहंसि' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा अन्तरागिहंसि चिद्वित्तए वा निसीइत्तए वा तुयत्तिए वा निदाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहरित्तए वा, उच्चारं वा पासवणं वा खेलं, वा सिघाणं वा परिदृवित्तए, सज्झायं वा करित्तए झाणं वा झाइत्तए काउस्सग्गं वा करित्तए ठाणं वा ठाइत्तए । अह पुण एवं जाणेज्जा वाहिए जराजुण्णे. तवस्सी दुबले किलंते मुच्छिज्ज वा पवडिज्ज वा एवं से कप्पइ अन्तरागिहंसि चिट्ठित्तए वा जाव ठाणं वा ठाइत्तए । सू० १९॥ छाया-नो कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा अन्तरगृहे स्थातुं वा निषतुं वा त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा अशनं वा, पानं वा खाद्यं वा स्वाधं वा आहारम् आहर्तुम्, उच्चारं वा प्रस्रवणं वा खेलं वा शिवाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कर्तुम् , ध्यानं वा ध्यातुम्, कायोत्सर्ग वा कर्तुम् , स्थानं वा स्थातुम् । अथ पुनरेवं जानीयात् व्याधितः जराजीर्णः तपस्वी दुर्बलः क्लान्तः मूर्च्छत् वा प्रपतेत् वा एवं तस्य कल्पते अन्तरगृहे स्थातुं वा यावत् स्थानं वा स्थातुम् ॥ सू० १९॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy