SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे छाया एवं तृतयोद्देशगमको नेतव्यः यावत् ग्रामानुग्रामं द्रवन् अन्यतीर्थिकेन वा गार्हस्थकेन वा आत्मनः शीर्षद्वारिकां कारयति कारयन्तं वा स्वदते ॥ सू० १४-६८ ॥ चूर्णी -- ' एवं ' इत्यादि । एवं तइयउद्देसगमओ णेयव्वो' एवं तृतीयोदेशगमको नेतव्यः, एवम् अनेनैव प्रकारेण तृतीयोदेशगमकः - अस्यैव तृतीयोदेशकगतो गमः सर्वोऽपि नेतव्य:ज्ञातव्यः 'जाव' यावत्, अत्र यावत्पदेन 'जे भिक्खू अप्पणो पाए संवाहेज्ज वा' इत्यादि सप्तदशसूत्रादारभ्य 'जे भिक्खू गामाणुगामं दूइज्जमाणे ० ' इत्येकसप्ततितमसूत्रपर्यन्तं पञ्चपञ्चाशत्संख्यक सूत्राणि तदर्थश्चेति सर्वे तत्रत एव द्रष्टव्यम् । अत्र तु (१४) चतुर्दशसूत्रादारभ्य अष्टषष्टि (६८) तमसूत्रपर्यन्तं तृतीयोदेशगमवद् व्याख्येयम् । केवलं भेद एतावनेव यत्-तत्र तृतीयोदेश के प्रमार्जनादीनां स्वयं करणविषयको निषेधः कृतः, अत्र तु अन्यतीर्थिकादिभिः प्रमानादीनां कारणानुमोदनविषयको निषेधो वर्तते इति ।। 1 ३५२ अत्राह भाष्यकारः— पायप्पमज्जणारम्भ, अंते सीसदुवारियं । गिहिहिं अन्नतित्थीहिं, करावे दोसभा भवे ॥ १ ॥ छाया - पादप्रमार्जनादारभ्य, अन्ते शीर्षदौवारिकाम् । गृहिभिः अन्यतीथिभिः कारयेत् दोषभाग् भवेत् ॥ १॥ अवचूरिः -- यो यतिः पादप्रमार्जनादारभ्य अन्ते शीर्षदौवारिकाम् गृहिभिः--गृहस्थैः, अन्यतीर्थिकैः तापसादिभिः कारयति तथा कारयन्तं श्रमणान्तरम् अनुमोदते स प्रायश्चित्तभाग् भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति गृहस्थादिकृत सेवाशुश्रूषादिकार्यस्य भगवता निषिद्धत्वात् । अथ परतीर्थिकादिभिः पादप्रमार्जनादिकं कारयतः को दोषः ? इति चेदाह - ते अन्य - तीर्थका गृहस्था वा यदि प्रमार्जनादिकं करिष्यन्ति तदा ते पादप्रमार्जनादिकरणानन्तरम् पश्चात् हस्तधावनादि कर्म करिष्यन्ति प्रस्वेदमलादिकं साधोः शरीरेऽवस्थितं दृष्ट्वा घ्रात्वा अशुचय इमे इति कृत्वा अवर्णवादं वदिष्यन्ति, अयतनया वा पादप्रमार्जनादिकं कुर्वन्तः सांपातिकान् जीवान् हन्युः, अथवा बहुना द्रव्येणायतनया प्रक्षालयन्तः उच्छोलणादोषं कुर्युः, भूमिष्ठान् जीवान् विराधयेयुरिति तस्मात् कारणात् तापसादिभिर्गृहस्थैश्च पादप्रमार्जनादिकं न कारयेदिति । सू० ६८॥ सूत्रम् - जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहा - वइकुलेसु वा परियावसहेसु वा उच्चारपासवणं परिवेइ परितं वा साइज्जइ ॥ सू०६९॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy