________________
Amwwwmommam
३२४
निशीथसूत्रे औषधादिसेवनं करोति स भिक्षुः श्रमणः शरीरप्रतिकर्म कुर्वाणः पुनराज्ञाभङ्गादिकान् दोषान् प्राप्नोति ॥ सू० ४९||
सूत्रम्-जे भिक्खू पासत्थं वंदइ वंदंतं वा साइज्जइ ।। सू० ५०॥ छाया-यो भिक्षुः पार्श्वस्थं वन्दते वन्दमान वा स्वदते ॥ सू० ५०॥
चूर्णिः -'जे भिक्खू' इत्यादि' 'जे भक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थं' पावस्थम्, तत्र पार्श्वे ज्ञानदर्शनचारित्रस्य समीपे तिष्ठति न तत्र उद्यमति यः सः पार्श्वस्थः, अथवा 'पाशस्थः' इतिच्छाया, तत्र पाशो नाम बन्धनम् , तत्कारणमविरत्यादि किमपि पाशपदेन प्रोच्यते, तादृशे पाशे अविरत्यादिरूपे तिष्ठति यः स पाशस्थः, स द्विविधो द्विप्रकारकः देशतः सर्वतश्च, तत्र देशतः पार्श्वस्थः शय्यातरपिण्डभोज्यादिभेदैरनेकविधः । सर्वतस्त्रिविकल्पः ज्ञानदर्शनचारित्रभेदेन, तत्र ज्ञानविराधको दर्शनविराधकश्चारित्रविराधकश्चेति, तथाहि-ज्ञानस्य विराधकः पार्श्वस्थः १, दर्शनातिचारे वर्तते २, चारित्रे स्थितो न भवति, अतोऽतिचारजातं न परित्यजति स पार्श्वस्थः ३, तादृशं पार्श्वस्थम् 'वंदई' वन्दते विधिपूर्वकं वन्दननमस्कारादिकं करोति तथा 'वंदंत वा साइज्जइ' वन्दमानं स्वदते पार्श्वस्थस्य वन्दनं कुर्वन्तं श्रमणान्तरमनु मोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ५०॥
सूत्रम्- जे भिक्खू पासत्थं पसंसइ पसंसंतं वा साइज्जइ ॥ सू०१५ छाया-यो भिक्षुः पार्श्वस्थं प्रशंसति प्रशंसन्तं वा स्वदते ॥सू० ५१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम् ‘पसंसई प्रशंसति 'एष शुद्धचारित्रागधकः' इत्येवंरूपां प्रशंसां करोति तथा 'पसंसंतं वा साइज्जई' प्रशसन्तं वा स्वदते, यो हि श्रमणः पार्श्वस्थस्य प्रशंसां करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ५१॥
सूत्रम्-जे भिक्खू कुसीलं वंदइ वंदंतं वा साइज्जइ ॥ सू० ५२॥ जे भिक्खू कुसीलं पसंसइ पसंसंतं वा साइज्जइ ॥सू० ५३॥ जे भिक्खू
ओसण्णं वंदइ वंदंतं वा साइज्जइ। सू० ५४॥जे भिक्खू ओसणं पसंसइ पसंसंतं वा साइज्जइ ।। सू० ५५||जे भिक्खू संसत्तं बंदइ वंदंतं वा साइज्जइ ॥ सू० ५६॥ जे भिक्खू संसत्तं पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ५७ ।। जे भिक्खू अहाछंदं वंदइ वंदतं वा साइज्जइ ॥ सू० ५८॥ जे भिक्खू अहाछंदं पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ५९॥ जे भिक्खू नितियं
શ્રી નિશીથ સૂત્ર