________________
चूर्णिभाष्यावचूरिः उ १३ सू० ९-११ दुर्बद्धादिविशिष्टस्थूणादिषु स्थानादिकरणनि० ३०९ भिव्यक्त न सर्वेषां दृष्टिपथमाविर्भवति तथैव अनभिव्यक्तत्वात् एकेन्द्रियाणां क्रोधादिकं नाविर्भवति, किन्तु पृथिव्यादिषु वर्तन्ते एवैकेन्द्रियजीवाः, तदुक्तम्
क्रोधादिकपरिणामाः एकेन्द्रियादिजन्तूनाम् । प्राबल्यं तेषु कार्येषु अव्यक्तत्वात् न भवन्ति हि ॥१॥
यस्मात् कारणात् पृथिव्यादिका एकेन्द्रियजीवा अपि एवंविधवेदनादिकमनुभवन्ति तस्मात् कारणात् पृथिव्यायेकेन्द्रियजीवोपरि कायोत्सर्ग शयनीयमासनं स्वाध्यायादिसंपादनं च कथमपि सर्वविरतः श्रमणः श्रमणी वा स्वयं न कुर्यात् न वा परानपि तदुपरि स्थानादिकं कारयेत् , न पृथिव्यायेकेन्द्रियजीवानामुपरिस्थानादिवं कुर्वन्तमनुमोदेत किन्तु शास्त्रमर्यादामाश्रित्याचित्तभूम्यादावेव स्थानादिकं कुर्यात् कुर्वन्तमनुमोदेत ।।सू०८।।
सूत्रम्-जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुयालंसि वा कामजलंसि वा दुबद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले ठाणं वा सेज्जं वा णिसेज्जं वा णिसाहियं वा चेएइ चेएतं वा साइज्जइ ॥ सू० ९॥
छायायो भिक्षुः स्थूणायां वा गृहेलुके वा उसुकाले (उदूखले) वा कामजले वा (स्नानपीठे वा) दुर्बद्धे दुनिक्षिप्ते अनिष्कंपे चलाचले स्थानं वा शय्यां वा निषद्या वा नैषेधिकी वा चेतयते चेतयमानं वा स्वदते ।।सू० ९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खु' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'थूणसि वा' स्थूणायां वा, तत्र स्थूणा नाम स्तंभः तस्यां स्थूणायां स्तम्भे 'गिहेलुयसि वा' गृहलुके वा देहल्यामित्यर्थः, 'उसुयालंसि वा' उसुकाले वा, तत्र उसुकालो नाम उदूखलम् 'ऊखल' इति लोकप्रसिद्धम् तस्मिन् 'कामजलंसि वा' कामजले वा, तत्र कामजलं नाम स्नानपीठादिकं यस्योपरि उपविश्य स्नानं करोति तादृशं साधनविशेषलक्षणं कामजलमिति तस्मिन् कामजले । कथंभूते स्थूणादौ ? इति स्थूणादिविशेषणान्याह--'दुबद्धे' इत्यादि । 'दुब्बद्धे' दुर्वद्धे तत्र बन्धनं द्विविधम्-रज्जुबन्धनं, काष्ठादिषु वेधबन्धनं वा तत् बन्धनं सम्यक् न कृतं तत् दुर्वद्धं शिथिलबन्धनमित्यर्थः तस्मिन् 'दुण्णिक्खित्ते' दुर्निक्षिप्ते तत्र दुनिक्षिप्तं,-दुर्-असम्यक् निक्षिप्तं निहितं तत्, न सम्यक् स्थापितमिति दुनिक्षिप्तम् तस्मिन् दुर्निक्षिप्ते स्थूणादौ 'अणिक्कंपे' अनिष्कंपे, तत्र निष्कम्पः-कम्पनवर्जितः, न निष्कम्पः अनिष्कम्पः, तस्मिन् कम्पनविशिष्टे, यत एवम् अत एव 'चलाचले' चलाचले अस्थिरे इत्यर्थः, एतादृशस्थूणादिषु स्थूणाद्यपरि यः श्रमणः श्रमणी वा 'ठाणं वा' स्थानं वा 'सेज्ज वा' शय्यां वा 'णिसेज्जं वा' निषद्यां वा 'निसीहियं वा' नैषेधिकी
શ્રી નિશીથ સૂત્ર