SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २६६ निशीथसूत्रे 'परं' परं स्वस्मादन्यम् 'बीहावेई' भापयति परस्मै भयं समुत्पादयति तथा 'बीहारतं वा साइज्जई' भापयन्तं भयं समुत्पादयन्तमन्यं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकारःभाष्यम्-भयं चउव्विहं वुत्नं, दिव्चमाणुसतेरियं । ___आकम्हियं च एक्केक्कं, संतासंतं पुणो दुहा ॥१॥ छाया--भयं चतुर्विध प्रोक्तं, दिव्यमानुषतैरश्चम् । ___ आकस्मिकं च एकैकं सदसत् पुनद्विधा ॥१॥ अवचूरिः-भयं चतुर्विधं चतुःप्रकारकं भवति तथाहि-दिव्यं-देवसम्बन्ति, मानुषं मनुष्यसम्बन्धि, तैरश्चं-तिर्यक्सम्बन्धि, तत्र पिशाचादिव्यन्तरजनितं भयं दिव्यम्, स्तेनादिभि र्जायमानं भयं मानुषं, तथा पृथिव्यपूतेजोवायुवनस्पतिसिंहादिभ्यो जायमानं भयं तैरश्चम् , तथा चतुर्थ भयमाकस्मिकं निर्हेतुकम् । एकैकं भयं पुनरपि द्विप्रकारकं भवति सतविद्यमानम् , असत्-अविद्यमानं, भयं द्विविधं सदूपेण असद्रूपेण च, तत्र पिशाचस्तेनजलादिसिंहा. दिकेषु समुपस्थितेषु दृष्टेषु च यद् भयं समुत्पद्यते तत्सद्पं भयम् , यद् एतेषु अदृष्टेष्वपि भयं जायते तत् असद्रूपं भयम् । आकस्मिकम्--अकस्माद् भयम् आत्मसमुत्थं मोहनीयभयप्रकृत्युदयात् यद् अविद्यमानं सत् समुत्पद्यते तदाकस्मिकं भयम् , इदं भयकारणसंकल्पिताभिप्रायोत्पन्नं भवतीति । अत्र शिष्यः प्राह-भो गुरो ! शास्त्रे तु इहलोकादिकं सप्तविधं भयं कथितं, तद्यथा-इहलोकभयम् १, परलोकभयम् २, आदानभयम् ३, आजीविकाभयम् ४, अकस्माद्भयम् ५, मरणभयम् ६, अश्लोकभयं चेति । तत्कथमत्र चतुर्विधमेव भयं प्रतिपाद्यते ? इति। एवं शिष्येण पृष्ट आचार्यः प्राह -भोः शिष्य ! यद्यपि सप्तप्रकारकं भयं तथापि सप्तानामपि चतुर्वैवान्तर्भावसंभवादत्र चतुर्विधं प्रोक्तम् , तथाहि-इहलोकभयं मनुष्यभये समाविष्टं भवति १, परलोकभयं देवभये तिर्यग्भये च समाविशति २, आदानभयमाजीविकाभयं मरणभयम् अश्लोकभयं चेति भयचतुष्टयमपि दिव्यमानुषतैरश्चरूपे भयत्रये यथायथं समाविष्टं भवति ६, यतः आदानेन हस्तस्थितेन वस्तुना भयं 'हस्तगतं मे वस्तु देवमनुजतिर्यश्चो मा हियेरन्' इत्येवं रूपं भयमादानभयम्, तथा आजीविका नाम वृत्तिः, सा च वृत्तिर्देवमनुजतिर्यगधीना, तथा मरणं प्राणपरित्यागः, तदपि दिव्यमनुजतिर्यगभवावस्थितस्यैव भवति, अकस्मात्कारणात् दिव्यादिभ्यस्त्रिभ्य एव मरणभयं भवति ६, अश्लोकभयमपि दिव्यमनुजतिर्यक्ष्वेव संभवति ७, तस्मात्कारणात् भयचतुष्टये सप्ताना. मपि भयानां समावेशो भवति । तथा च राक्षसपिशाचादिजन्यं भयं दिव्यभयम् १, स्तेनादिकभयं मनुजभयम् २- उदकादिसिंहादिभयं तिर्यग्भयम् ३, मोहनीयप्रकृत्युदयजन्यमात्मसमुत्थमाकस्मिकभयम् ४, अस्माच्चतुर्विधभयमध्यादन्यतमभयेन स्वात्मानं परं वा तदुभयं च भापयति શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy