SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ९ सू० ७-८ राजादीनांदोषपदस्थानप्रवेश-तद्दर्शनार्थगमननि० २०७ 'परं चउरायपंचरायाओ' परं चतूरात्रपञ्चरात्रादनन्तरम् तदधिकं वारं वारमित्यर्थः 'गाहावइकुलं' गाथापतिकुलम् , तत्र गाथा-गृहं तस्याधिपतिः स्वामी तत्तत्स्थानाधिपतिः, तस्य कुलं गृहं तत् 'पिडवायपडियाए' पिण्डपातप्रतिज्ञया पिण्डस्याशनादिचतुर्विधाहारस्य वस्त्रपात्रकम्बलरजोहरणादीनां वा पातः प्राप्तिः तस्य प्रतिज्ञया प्राप्तिवाञ्छया 'निक्खमइ वा' निष्क्रामति वा निस्सरति तथा 'पविसइ वा' प्रविशति वा गाथापतिकुले प्रवेशं करोति वा, तथा 'निक्खमंत वा' निष्कामन्तं वा निस्सरन्तमन्यं श्रमणं वा 'पविसंतं वा' प्रविशन्तं वा अन्यम् 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । अथ येषां दोषपदानाम् अज्ञानात् प्रायश्चित्तं भवति तानि कानि तत्राह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'कोट्ठागारसालाणि वा' कोष्ठागारशालानि वा, तत्र कोष्ठागारं तण्डुलगोधूमचणकव्रीहियवादीनां धान्यानां स्थापनाय निर्मितं 'कोठार' इति भाषाप्रसिद्ध कोष्ठागारशालमिति नाम्ना कथ्यते 'शालानि' इति शालशब्दो नपुंसकलिङ्गेऽपि वर्त्तते तथा 'भंडागारसालाणि वा' भाण्डागारशालानि वा, तत्र भाण्डागारशालानि यत्रा करत्नस्फटिक. रत्नादिषोडशविधरत्नानां हिरण्यसुवर्णादिभाजनानां वा स्थापनं करोति तानि तथा 'पाणसा. लाणि वा' पानशालानि वा, यत्र मादिरा-सीधु-खण्डमृद्वीकादीनां पानकद्रव्याणि स्थाप्यन्ते तानि तथा 'खीरसालाणि वा' क्षीरशालानि वा, दुग्धदध्यादिद्रव्यस्थापनशालानि 'गंजसालाणि वा' गञ्जशालानि वा, तत्र गञ्जम्-अनेकोपस्करणसमूहः, तत् स्थापितं भवति यत्र तत् गञ्जशालामिति कथ्यते, बहुत्वविवक्षायां तानि 'महाणससालाणि वा' महानसशालानि वा, यत्र राज्ञामनेकविधाशनादि पाच्यते तानि महानसशालानि वा, एतानि षडू दोषपदानि तानि अज्ञात्वा अपृष्ट्वा अगवेषयित्वा यदि साधुः निष्क्रामति वा प्रविशति वा तदा प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति । सूत्रे 'चतूरात्रपञ्चरात्रात्परं' इत्युक्तं तस्यायं भावः-चतुःपञ्चरात्रपर्यन्तमपरिचितत्वेन साधुप्रवेशः क्षन्तब्यो भवितुमर्हति, तदनन्तरगमने तत्तत्स्थानाधिपतयः कुपिता भवन्ति यदयं साधुरं वारं षट्सप्तादिरात्रमपि निष्क्रामति प्रविशति चेति चौर्यलोलुपतादिविषये तेषां मनसि शङ्का समुत्पद्यते अतः-'चतूरात्रपञ्चरात्रात्परं' इत्युक्तम् ।।सू० ७॥ सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं आगच्छमाणाण वा णिग्गच्छमाणाण वा पयमवि चक्खुदंसणपडियाए अभिसंधारेइ अमिसंधारेतं वा साइज्जइ ॥सू०८॥ __छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामागच्छतां वा निर्गच्छतां वा पदमपि चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति अभिसन्धारयन्तं वा स्वदते ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy