________________
चूर्णिभाष्यावचूरिः उ०८ सू० ४-१०
साधोः स्त्रीमध्ये कथाकथननिषेधः १९१
चरिकायां वा प्राकारस्याधोऽष्टहस्तपरिमितो मार्गः चरिका तस्या वा 'पागारंसि वा' प्राकारे वा प्रकारोपरि विद्यमाने गृहे वा 'दारंसि वा' द्वारे वा - नगरद्वारे 'गोपुरंसि वा' गोपुरे वा, गोपुरं नगरद्धारस्य अग्रद्वारम् तस्मिन् वा ॥ सू० ३ ॥
"
'जे भिक्खू दगंसि वा' इत्यादि । 'दगंसि वा' उदके वा जलमध्ये 'दगमग्गंसि वा ' उदकमार्गे वा येन पथा जलस्य प्रवाहो वहति तस्मिन् उदकमार्गे 'दगपहंसि वा' उदकपथे वा येन पथा जलमानेतुं गच्छत्यागच्छति च जनः स उदकपथः, तस्मिन् उदकपथे वा 'दगमलंसि वा ' उदकमले वा कर्दमसहितमार्गे 'द्गतीरंसि वा' उदकतीरे वा उदकस्य समीपदेशे 'दगट्ठाणंसि वा' उदकस्थाने वा यत्र जलं तिष्ठति तत्र तडागादिषु ॥ सू० ४ ॥
'जे भिक्खू सुष्णगिर्हसि वा' इत्यादि । 'सुण्णगिर्हसि वा' शून्यगृहे वा मनुष्यादिवासरहिते गृहे 'सुण्णसालंसिवा' शून्यशालायां मनुष्यादिरहितायां शालायाम् 'भिन्नगिहंसि वा' भिन्नगृहे वा त्रुटितस्फुटितगृहे 'भिन्नसालंसि वा' भिन्नशालायां वा- - त्रुटितस्फुटितशालायां वा 'कूडागारंसि बा' कूटागारे वा, तत्र कूटः पर्वतशिखरं तत्सदृशगृहे अधोविशालम् उपर्युपरि संकुचितं कूटागारं तस्मिन् 'कोहागारंसि वा' कोष्ठागारे शालिगोधूमयवाद्यन्नागारे || सू० ५ ॥
'जे भिक्खू तणगिहंसि वा' इत्यादि । 'तणगिहंसि वा' तृणगृहे वा दर्भादितृणसंपादितगृहे कुटीरे 'झोंपडी' इति लोकप्रसिद्धे 'तणसालंसि वा' तृणशालायां वा दर्भादितृणसंपादितशालायाम् 'तुसगिर्हसि वा' तुषगृहे वा शाल्यादि तुषस्थापनगृहे 'तुससालंसि वा' तुषशालायां वा तुषस्थापनाय निर्मितायां शालायाम् 'भुसगिहंसि वा' भुसगृहे वा गोधूमयवादीनां मर्दनेन जायमानो 'भूसा' इति लोकप्रसिद्धो वस्तुविशेषः, तादृशे भूसास्थापनाय निर्मिते गृहविशेषे 'भुसालसि वा' भुसशालायां वा तादृशशालायाम् ॥ सू० ६ ॥
'जे भिक्खू जाणसालंसि वा' इत्यादि । 'जाणसालंसि वा' यानशालायां वा यानमश्वादिकं तस्य शाला इति यानशाला विशालगृहं शालेत्युच्यते तस्यां यानशालायाम् ' जाणगिहंसि वा' यानगृहे वा अश्वादिगृहे वा 'जुग्गशालंसि वा' युग्यशालायां वा, तत्र युग्यं शकटरथादिकं यत्र स्थाप्यते तादृशशालायाम् 'जुग्गगिहंसि वा' युग्यगृहे वा ॥ सू० ७ ॥
'जे भिक्खू पणियसालंसि वा' इत्यादि । 'पणियसालंसि वा' पण्यशालायां यत्र विक्रेय्यं भाण्डादिकं विक्रयार्थं स्थापितं भवेत् तादृशगृहं पण्यशालोच्यते तत्र 'पणियगिहंसि वा
गृहे वा 'कुवियसालंसिवा' कुप्यशालायां वा यत्र लौहादिकं वस्तु स्थापितं भवेत् तादृशं गृहं कुप्यशाला, तत्र 'कुवियगिहंसि वा' कुप्यगृहे वा लौहादिस्थापनगृहे ॥ सू० ८ ॥
'जे भिक्खू गोणसालंसि वा' इत्यादि । 'गोणसालंसि वा' गोवृषभशालायां वा 'गोणगिहंसि वा' गबां गृहे वा 'महाकुलंसि वा' महाकुले वा तत्र महतां कुलम् महाकुलम् तस्मिन्
શ્રી નિશીથ સૂત્ર