SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्र चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृप्रामस्य स्त्रियाः 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छया 'हत्यकम्म' हस्तकर्महस्तेन संपाद्यमानं कर्म क्रिया व्यापारः, तत् करोति स्वयम् तथा 'करेंतं वा साइज्जई कुर्वन्तं वा स्वदते । यो हि मैथुनेच्छया हस्तकर्म करोति तमनुमोदयति स प्रायश्चित्तमाप्नोति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मात् हस्तकर्मकरणेऽनुमोदने चैते दोषा भवन्ति तस्मात्कारणात् स्वयं श्रमणो हस्तकर्म न कुर्यात् न वा हस्तकर्म कारयेत् कुर्वन्तमनुमोदयेत् , चतुर्थमहाव्रतविराधनाया अवश्यम्भावादिति ।।सू० २॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं कठेण वा किलिंचेण वा अंगुलियाए वा सलागाए वा संचालेइ संचालतं वा साइजइ ॥ सू०३॥ छाया- यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया अङ्गादानं काष्ठेन वा किलिञ्चेन वा शलाकया वा संचालयति संचालयन्तं वा स्वदते ॥ सू० ३ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य-स्त्रियाः 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' अङ्गादानम् , तत्राझं शरीरं तस्य आदानं प्रसूतिरित्यर्थः, अङ्गादानम्-अङ्गस्योत्पत्तिर्भवति यस्मात् तत् अङ्गादानम् , यद्यपि दाधातुर्दानार्थ कस्तथापि धातोरनेकार्थत्वादुपसर्गवत्त्वात् आर्षप्रकरणबलाच्चात्रोत्पत्तिरों भवतीति । अङ्गादानं मेट्रं स्त्रीपुरुषयोश्चिह्नविशेषमित्यर्थः, एतादृशं स्त्रीणां स्वस्य वा अङ्गादानम् मोहनीयकर्मोदयात् 'कटेण वा' काष्ठेन शिंशपादिदारुदण्डेन वा 'किलिंचेण' वा किलिञ्चेन वा तत्र किलिञ्चो वंशकर्परी, तादृशेन किलिञ्चेन वा 'अंगुलियाए वा' अंगुल्या वा 'सलागाए वा' शलाकया वा लौहादिशलाकया वेत्रशलाकया वा 'संचालेइ वा' संचालयति 'संचालतं वा साइज्जइसंचालयन्तं वा स्वदते । यो हि अङ्गादानम् काष्ठादिना संचालयति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति ।। सू० ३ ॥ सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं संवाहेज्ज वा पलिमद्देज्ज वा संवाहेंतं वा पलिमहतं वा साइज्जइ ॥सू० ४॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं संवाहयेद्वा परिमर्दयेद्वा संवाहयन्तं वा परिमर्दयन्तं वा स्वदते ॥ सू० ४॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy