________________
निशीथसूत्रे
vvvvvvvvvvvvvvvv
MAvvvvvvvvvADA
अत्राह भाष्यकारः-- भाष्यम् - साणुप्पाए काले, पडिलेहं नो करिज्ज जो भिक्खू ।
उच्चारपासवणस्स, भूमीए पावए मिच्छं ॥ छाया–सानुपादे काले प्रतिलेखं नो कुर्याद् यो भिक्षुः ।
उच्चारप्रस्रवणस्य, भूम्याः प्राप्नुयात् मिथ्यात्वम् ॥ अवचूरिः-'साणुप्पाए' इत्यादि । सानुपादे काले दिवसस्य चतुर्थ भागावशेषे काले उच्चारप्रस्रवणस्य भूम्याः प्रतिलेखनं यो भिक्षुर्न कुर्यात् स मिथ्यात्वम् आज्ञाभङ्गादिदोषाँश्च प्राप्नोतीति । रात्रौ यत्रोच्चारप्रस्रवणं परिष्ठापनीयं भवेत् तादृशं भूमिभागं दिवसस्य चरमभागे एवावश्यं प्रतिलेखयेदिति, तस्यः यः प्रतिलेखनं न करोति तस्य आज्ञाभङ्गानवस्थामिथ्यात्वादिकान् दोषान् प्राप्नोति । तत्राऽप्रतिलेखितायां भूमौ उच्चारप्रस्रवणयोः परिष्ठापने इमे दोषाः, तथाहि-अप्रतिलेखितायां भूमौ परिष्ठापयति उच्चारप्रस्रवणं तदा द्रव्यतः षट्कायानामुपमर्दनसंभवेन संयमविराधनम्, तथा तत्र बिलादिकसंभवेऽप्रतिलेखिते प्रतिष्ठापने सर्पवृश्चिकादिजन्तुसंभवे तेनोपघातसंभवेनात्मविराधनम् , तथा अन्धकारे गमने उच्चारप्रस्रवणादिना चरणौ उपलिप्तौ भवेतामिति उपकरणादिविनाशः, साधोविपरिणामो वा भवेत् , यस्मात् अप्रतिलेखितायां भूमौ मूत्रपुरीषपरिष्ठापने इमे दोषा भवन्ति तस्मात् कारणात् दिवसस्य चरमपौरुष्यामेव प्रयत्नपूर्वकम् उच्चारप्रस्रवणभूमिमवश्यमेव प्रतिलेखयेत् ॥१३४॥
सूत्रम्-जे भिक्खू तओ उज्वारपासवणभूमीओ ण पडिलेहेइ ण पडिलेहेंतं वा साइज्जइ ॥ सू० १३५॥
छाया-यो भिक्षुः तिस्रः उच्चारप्रस्रवणभूमीनं प्रतिलेखयति न प्रतिलेखयन्तं वा स्वदते ॥सू० १३५॥
__ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः 'तओ उच्चारपासवणभूमीओ' तिस्रः-त्रिसंख्यका उच्चारप्रस्रवणभूमीः त्रीणि मंडलानीति यावत् ‘ण पडिले हेइ' न प्रतिलेखयति, 'ण पडिलेहेंते' न प्रतिलेखयन्तं प्रतिलेखनं न कुर्वन्तं वा स्वदतेऽनुमोदते ।
एकस्या भूम्या एवं प्रतिलेखनकरणेन तत्र उच्चारप्रस्रवणपरितिष्ठापसंभवेऽपि भूमित्रयस्य प्रतिलेखनं किमर्थमिति चेत् आह-यदि कदाचित् रात्रौ एकस्यां भूमौ परिष्ठापने कश्चित् व्याधातो भवेत् तदा द्वितीयतृतीयप्रतिलेखितभूमौ प्रस्रवणादीनां परिष्ठापनं कर्तव्यम् , अतोभूमित्रयस्य प्रतिलेखनं सूत्रे प्रदर्शितम् ।
यो हि भिक्षुः भूमित्रयं न प्रतिलेखयति किन्तु अप्रतिलिखितायामेव भूमौ उच्चारप्रस्रवणं परिष्ठापयति स प्रायश्चित्तभागी भवति, तथा आज्ञाभङ्गादिकान् दोषान् प्राप्नोति, तथा अप्रतिलेखितभूमौ व्युत्सर्जने द्रव्यतः षङ्जीवनिकायविराधने संयमविराधनम् , बिलादिसंभवे सर्पादीनां
શ્રી નિશીથ સૂત્ર