________________
चूर्णिभाष्यावचूरिः उ० ३ सू० १४-१५ संखडितश्चतुर्थादिगृहान्तरतश्च भिक्षाग्रहणानि० ८७
भाष्यम् - गाहावइकुलं भिक्खू, पच्चक्खाओ गओ जइ । पुणो पवेसमेत्तेणं, आणाभंगाइयं भजे ||
छाया - गाथापतिकूलं भिक्षुः प्रत्याख्यातो गतो यदि । पुनः प्रवेशमात्रेण - आज्ञाभङ्गादिकं भजेत् ॥
अवचूरि : - 'गाहावइकुलं' इत्यादि । कश्चिद्भिक्षुः भिक्षाप्राप्त्यर्थं गृहपतिकुलं गतः, तत्र प्रविशन्नेव गृहपतिना प्रत्याख्यातः " नास्ति मद्गृहे भिक्षावकाश : " एवंप्रकारेण निराकृतोsपि यदि पुनर्गृहपतेराज्ञां विना तस्मिन् गृहे प्रविशति । ततः प्रवेशमात्रेणाज्ञाभङ्गादिकं दोषं भजते तस्मात्तत्कुलं न प्रविशेदननुज्ञात इति ॥ सू० १३ ॥
सूत्रम् - जे भिक्खू संखडिपलोयणाए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहे पडिग्गाहतं वा साइज्जइ ॥ सू० १४ ॥
छाया -यो भिक्षुः संखडिप्रलोकनया अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'संखडिपलोयणाए ' संखडिप्रलोकनया, संखडीति देशी शब्दः तदर्थस्तु यत्र स्थानेऽनेकजनानां भोजनं निष्पाद्यते, तादृशस्थानं संखडी । यत्राऽनेक पृथिव्यादिषड्जीवनिकायजीवानां प्राणाः खण्डिताः विराधिता भवन्ति सा संखडीत व्युत्पत्तेः- “जिमनवार " इति भाषायाम् तत्र - संखडीस्थले गत्वा - 'असणं वा ' अशनं वा, 'पाणं वा' पानं वा, 'खाइमं वा' खाद्यं वा, 'साइमं वा' स्वाद्यं वा, 'पडिग्गा हे ' प्रतिगृह्णाति 'पडिग्गातं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १४ ॥
सूत्रम् - जे भिक्खु गाहावइकुलं पिंडवायपडियाए अणुप्पविठे समाणे परं तिघरंतराओ असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिग्गा हेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० १५ ॥
छाया - यो भिक्षुः गाथापति कुलं पिंडपातप्रतिज्ञया अनुप्रविष्टः सन् परं त्रिगृहान्तरात् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा अभिहृतमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० १५ ॥
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गाहावइकुल' गाथापतिकुलम् 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया तत्र - पिण्डोऽशनादिकं, तस्य गृहिणा दीयमानाहारस्य पात्रे
શ્રી નિશીથ સૂત્ર