________________
चूर्णिभाष्यावचूरिः उ० २ सू० ३७-३८
नैत्यिकवास - पुरः पञ्चात्संस्तव निषेधः ५५
छाया-पिण्डो भक्तार्थको ज्ञेयस्तदर्ध चाऽपार्धकः । भागस्त्रिभागस्तस्यार्ध ऊनार्धः स व्याख्यातः ॥ पिण्डे नैत्यिकेSपार्धे भागे ऊनार्द्धके तथा । एष एव गमो ज्ञेयः सर्वदा शास्त्रसंमतः ॥
अवचूरि : - 'पिंडो भत्तट्ठगो' - इत्यादि । पिण्डः - पिण्डशब्दोऽत्र भक्तार्थकः भक्तार्थवाचको ज्ञेयः, ततः पिण्ड इति भक्तमित्यर्थः, तस्य यदर्द्ध सोऽपार्द्धभागः प्रोच्यते, भागः त्रिभागः, तथा तस्यापि यद् अर्द्ध स ऊनार्द्धः ऊनार्द्धभागः ।
ततो नैत्यके पिण्डे तथा सूत्रघटकेपार्धे तथा भागे, तथा ऊनार्धके सर्वत्र एष एव गमोsग्राह्यरूपः तीर्थंकरगणधरैः सर्वदा - सर्वकालं व्याख्यातः कथितः, अत एव स शास्त्रसम्मतो ज्ञेयः । तत्र - गमस्वरूपमेव दर्शयति- 'पिंडे' इत्यादि । सूत्रघटकपिण्डपदं भक्तार्थकं भवति, पिण्डो भक्तार्थ इतिपर्यायः । यथा चतुस्त्रिंशत्सूत्रघटकं 'अवढं ' इति पदं पिण्डार्धबोधकम्, पिण्डस्या - भाग इत्यर्थः । भागपदम् – पञ्चत्रिंशत्सूत्रघटकपिण्डस्य त्रिभागबोधकम् । तथा षट्त्रिंशत्सूत्रघटकम् 'ऊणड्ढभाग' – पदं त्रिभागस्याप्युनाऽर्धभागबोधकं ज्ञातव्यम् एतत्सर्वं दानाद्यर्थं निष्कासित - बिषयकं बोध्यम्, तद्ग्रहणे साधुर्दोषभागू भवति ॥ सू० ३६ ॥
"
सूत्रम् -- जे भिक्खू णितियं वासं वसइ वसंतं वा साइज्जइ ॥ सू० ३७ | छाया - यो भिक्षुर्नैत्यिकं वासं वसति वसन्तं वा स्वदते ॥ सू० ३६ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं वास' नैत्यिकं वासं वर्षाकालवर्जिते ऋतुबद्धकालातिरिक्तकालेऽप्यकारणमेकस्मिन् स्थाने नित्यवासम् ' वसई' वसति - वासं करोति कारयति 'वसंतं वा साइज्जइ' वसन्तं वा स्वदतेऽनुमोदते, सहिशीतकालाद्वर्षकालात्, परतः कारणेऽसति ।
प्रायश्चित्ती वसन्नित्यं वसतो वाऽनुमोदनात् ॥ १॥ इति ॥ सू०३७॥ सूत्रम् -- जे भिक्खू पुरेसंथवं पच्छासंथवं वा करेइ करेंतं वा साइज्जइ । छाया - यो भिक्षुः पुरः संस्तवं पश्चात्संस्तवं वा करोति- कुर्वन्तं वा स्वदते ॥ ३८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिभुः 'पुरेसंथवं' पुरःसंस्तवम् वस्त्रपात्रादिदातुर्दानात्पूर्वं - पूर्वकालमेव संस्तवम् प्रशंसनम् - परिचयं वा 'संस्तवः स्यात्परिचयः' इति वचनात् 'पच्छासंथवं' पश्चात्संस्तवम्, वस्त्रपात्रादिदानानन्तरकाले संस्तवं प्रशंसनम् - परिचयं वा 'करेइ' करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते - अनुभोदते स प्रायश्चितभाग् भवति ।
9
શ્રી નિશીથ સૂત્ર