SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ww छाया-द्विविधं रजोहरण, औणिकं च तथेतरत् । उत्सर्गे प्रथमं ग्राह्य, अपवादे च अन्यत् ।। ___ अवचूरिः-'दविह' इत्यादि। रजोहरणं द्विविधम्-और्णिकं तथा इतरत्-तद्भिन्नं च । तत्रोत्सर्गमार्गे और्णिकं ग्रहोतव्यम् । अपवादे-ऊर्णामयस्याऽलाभे तु-अन्यत् भाङ्गिकादिकमपि रजोहरणं ग्रहीतव्यम् । रजोहरणं पञ्चविधं भवति–जाङ्गमिकं १, भाङ्गिकं २, शाणकं ३, पोतकं ४, तिरीटपटकम् ५ । तत्र जाङ्गमिक-जङ्गमप्राणिकेशविनिर्मितं, यथा औणिकम् औष्ट्रिकमित्यादि १ । भाङ्गिकं 'पाट' इति लोकप्रसिद्धं यस्य तन्तुभिः कोत्थलकं निर्मीयते तन्निर्मितम् २ । शाणकं शणसूत्रनिर्मितम् ३ । पोतकम्-पोतो वस्त्रं, तन्निर्मितं कार्पाससूत्रनिर्मितमित्यर्थः ४, तिरीटपट्टकम्-तिरीट इति वृक्षविशेषः, तस्य त्वचाविनिर्मिततन्तुसम्पादितम् ५ । पुनरपि रजोहरणं त्रिविधम्-औत्सर्गिकम् १, आपवादिकम् २, तदुभयात्मकम् ३ । तत्र औत्सर्गिकं सर्वात्मना और्णिकम् , आपवादिकम्-भाङ्गिकादिकं चतुर्भेदकम् । तदुभयात्मकम्--ऊर्णादिमिश्रितम् । एषां मध्यात्पूर्वपूर्वाभावे परात्परं रजोहरणं ग्राह्यम् । प्रतिमाधारी श्रावकस्तु निषद्या-रजोहरणोपरिवेष्टनको वस्त्रविशेषः, तदहितदण्डिकायुक्त रजोहरणं धारयति । साधुसाध्वीनां तु निषद्यारहितदण्डिकायुक्तं रजोहरणं कथमपि न कल्पते इति । तत्र--रजोहरणप्रमाणमाह--रजोहरणफलिकाया हस्तिनः पदन्यासस्य यावत् प्रमाणं भवेत् तावत्प्रमाणकं रजोहरणं कर्त्तव्यम् । दण्डिकाप्रमाणमाह--गमनसमये सुखपूर्वकं यया प्रमार्जयितुं शक्यते तादृशप्रमाणा लम्बायमाना रजोहरणदण्डिका ग्राह्या । लघुदण्डिकया सम्यक् प्रमार्जनं न संभवति अत एव रजोहरणे लघुदण्डिका न धार्या । तथा--रजोहरणं परित्यज्य युगकाष्ठप्रमाणभूमितो दूरं न गन्तव्यम् । अप्रमार्जितभूमौ गमने चासमाधिस्थानदोषो भवतीति दशाश्रुतस्कन्धे भगवता प्रतिपादितमिति ।। सू० १॥ सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं गेण्हइ गेण्हतं वा साइज्जइ २ छाया -यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं गृह्णाति गृह्णन्तं वा स्वदते ॥ सू० २॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'दारुदंडयं पायपुंछणं' दारुदण्डकं पादप्रोञ्छनम् निषयापरिवेष्टनरहितदारुदण्डयुक्तं रजोहरणम् 'गेण्हई' स्वयं गृह्णाति 'गेण्हंतं वा साइज्जइ' गृह्णन्तं वा स्वदते, गृह्णाति ग्राहयति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तभाग्भवतीति ॥ सू० २ ॥ सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं धरेइ धरतं वा साइज्जइ ।३। શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy