SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका कालो रानोके विचार 'ग्रामानुग्रामम् '-एकस्माद् ग्रामाद् अनु-पश्चाद् यो ग्रामस्तम्, अर्थादनुक्रमेण ग्रामानामान्तरं द्रवन्-विहरन् , इह-अस्यां चम्पानगा विधमानं पूर्णभद्रमुधानम् आगतः समन्ताद् विहृत्योपस्थितः, यावत्करणात् 'अहापडिरूवं ओग्गहं ओगिहित्ता संजमेणं तवसा अप्पाणं भावमाणे' एतेषां संहिः । छाया- 'यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन्' इति । 'यथे'-ति-यथाप्रतिरूपं यथासंयमिकल्पम् अवग्रहम् निवासार्थमुद्यानपालस्याज्ञाम् अवगृह्य-आदाय संयमेन सप्तदशविधेन तपसा द्वादशविधेन आत्मानं भावयन् वासयन् संयोजयनिति यावत् , विहरति-विराजते, तत्= तस्मात् महाफलं-महत्-विशालं फलं शुभपरिणामलक्षणम्, अत्र 'अत एवेतिशेषः खलु-निश्चयेन तथारूपाणां शुभपरिणामरूपमहाफलजननस्वभावानां, यावच्छब्देन-" अरिहंताणं, भगवंताणं, णामगोयस्सवि सवणयाए किमंगपुण अभिगमण-वंदण–णमंसण-पडिपुच्छण-पज्जुवासणाए, एकस्सवि आरियस्स, धम्मियस्स, सुवयणस्स सवणयाए किमंग पुण" एतेषां सङ्ग्रहः । छाया' अर्हतां भगवतां नामगोत्रस्यापि श्रवणतया किमङ्ग ! पुनरभिगमन-वन्दननमस्यन-प्रतिप्रच्छन-पर्युपासनेन, एकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य श्रवणतया किमङ्ग ! पुनः' इति। अर्हतां'-नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां सर्वज्ञत्वात्तेऽर्हन्तस्तेषाम् , 'भगवतां'-भगः समग्रैश्वर्यादिगुणः, स विद्यते येषां ते भगवन्तस्तेषाम् । नाम च-वर्धमानादि, गुणनिष्पन्नमभिधानं गोत्रं चकश्यपादि, तयोः समाहारे नामगोत्रं, तस्य श्रवणेनापि महाफलं भवति । किमङ्ग ! पुन:-अभिगमनं सम्मुखं गमनम् , वन्दनं-गुणकीर्तनम् । नमस्यनं= पश्चाङ्गसयत्ननमनपूर्वकनमस्करणम्, प्रतिप्रच्छंन शरीरादिवार्तापनः, पर्युपासना सावद्ययोगपरिहारपूर्वकनिरवद्यमावेन सेवाकरणम्-एतेषां समाहारस्तथा, अयं શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy