SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २११ सिद्ध द्रुमगणाः प्रज्ञप्ताः । सम्प्रति सदृष्टान्तं तद्वर्णनमाह 'जहा से' इत्यादि । यथा येन प्र कारेण ते प्रसिद्धाः अचिरोङ्गतशरत्सूर्यमण्डलपतदुल्कासहस्रदीप्यमानविद्युदुज्ज्वलित निधूमज्ज्वलित हुतवहनिर्मातधौततप्ततपनीयकिंशुकाशोकजपाकुसुमविमुकुलितपुञ्जमणिरत्नकिरण जात्यहिगुलकनिकररूपातिरेकरूपाः तत्र अचिरोद्गतशरत्सूर्यमण्डलम्-अचिरोद्गतं सद्य एव उदितं यत् शरत्सूर्यमण्डलं शरदृतु सम्बन्धिसूर्यबिम्बम्, तथा-पतदुल्कासहस्रम्-पतन्तीनाम्-आकाशादध आगच्छन्तीनाम् उल्कानां सहस्रम्, तथा दीप्यमानविद्युत्-प्रकाशमानविद्युत्, तथा-उज्ज्वालनिधूमज्वलित हुतवहः-उज्ज्वाल:-उद्गता ज्वाला यस्य सः देदीप्यमानः एतादृशो निर्धमो-धृमरहितो ज्वलितः-दीप्तिसम्पन्नो यो हुतवहः-अग्निः स तथा, मूले 'हुतवह' शब्दस्य 'निधू म' शब्दात्पूर्वप्रयोगः प्राकृतत्वात्, पूर्वोक्तपदचतुष्टयस्य द्वन्द्वे-'अचिरोद्गतशरत्सूरमण्डलपतदुल्कासहस्रदीप्यमानवियु-दुज्ज्वाल निधूमज्वलितहुतवहा इति । एते कीदृशा इति दर्शयितुमाह-निधर्मात' इत्यादि । तत्र निर्मातं नितराम् अग्निसंयोगेन घ्मातं-शोधितमलम् अत एव धौतं- शुद्धं तप्ते-तापप्राप्तं च यत् तपनीयम् उत्तमजातीय सुवर्णं तत् निर्मातधौततप्ततपनीयमिति, तथा किंशुकाशोकजपाकुसुमानां किंशुकः-पलाशः, अशोकः प्रसि द्धः, जपा प्रसिद्धा, आसां यानि विमुकुलितानि-विकसितानि कुसुमानि-पुष्पाणि तेषां ये पुञ्जाः - समूहास्ते किशुकाशोकजपाकुसुमविमुकुलितपुञ्जा इति । 'विमुकुलित' शब्दस्य परनिपात आर्षत्वात् । तथा-मणीनां रत्नानां च किरणाः इति मणिरत्नकिरणा इति तथा-जात्यहिङगुलकानां-उत्तमजातीयहिङ्गुलकानां यो निकरः-समूहः स जात्यहिङगुलकनिकर इति । एतेषां द्वन्द्वे-निर्मातधौततप्ततपनीयकिंशुकाशोक जपाकुसुमविमुकूलितपुजमणिरत्नकिरणजात्यहिङ्गुलकनिकराः एतेषां यद्रूपं ततोऽपि अतिरेक-सातिशयं रूपं येषां ते तथा, ततः 'अचिरोद्गतेत्यादि ज्वलित हुतवहान्तस्य पदस्य निर्मातेत्यादि रूपातिरेकरूपान्तस्य च पदस्य कर्मधारयः । येन प्रकारेण निर्मातधौततप्ततपनीयाद्यपेक्षयाऽपि विशिष्टरूप सम्पन्ना अचिरोद्गतशरत्सूरमण्डलादयः सन्तीति निष्कर्षः इति । तथैव ते-पूर्वोक्ताः ज्योतिषिकाः अपि द्रुमगणाः, अनेक बहुविविधविस्रसापरिणतेनोयोतविधिनोपपेताः सन्ति । ननु यदि सूर्यमण्डलादिहुतवहान्त ज्योतिर्वत प्रकाशिनस्ते स्युस्तदा तद्वदुर्दर्शवतीव्रत्व चलनादिधर्मोपेता अपि सम्भवेयुरित्याह--मुखलेश्याइत्यादि सुखयतीति सुखा-सुखदा लेश्या तेजो येषां ते सुखलेश्याः अतएव मन्दलेश्याः और ये अपनी स्वाभाविक प्रभा से एवं अनेकबहुविविधविनसा परिणत हुई उठ्योतविधि से युक्त हुए उन २ प्रदेशों को चारों ओर से अवभासित करते रहते हैं। उद्योतित करते रहते हैं । इन सब कल्पवृक्षों के अधोभाग कुशकाश एवं विकुश-बिल्वादि लताओं से रहित होते हैं । હળ છે અને પિતાની સ્વાભાવિક પ્રભાથી તેમજ અનેક બહુવિવિધ વિસસા પરિણત થયેલી ઉદ્યોત વિધિથી યુક્ત થયેલા તત્ તત્ પ્રદેશને ચેમેરથી અવભાસિત કરતા રહે છે. ઉદ્યોતિત કરતા રહે છે તેમજ પ્રભાયુક્ત કરતા રહે છે. આ સર્વે કલ્પવૃક્ષના અધોભાગ કુશ કાશ તેમજ વિકુશ બિલવાદિ લતાઓથી રહિત હોય છે. આ સૂત્રપાઠગત પદોની વ્યાખ્યા જીવા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy