SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ८३४ जीवाभिगमसूत्रे 7 पलमिति वा नीलाशोक इति वा नीलकणवीरइति वा नीलबन्धुजीवक इति वा भवेदेतावद्रूपाः स्यात् ? नायमर्थः समर्थः, तेषां खलु नीलानां तृणानां मणीनांच इत इष्टतरक एव कान्ततर एवं यावद्वर्णेन प्रज्ञप्तः, तत्र यानि तानि लोहितकानि तृणानि च मणयश्च तेषां खलु अयमेतावद्रूपो वर्णावासः प्रज्ञप्तः तद्यथा नामकः शशकरुधिरमिति वा, उरभ्ररुधिरमिति नररुधिरमिति वा वाराहरुधिरमिति वा, महिषरुधिर मिति वा बालेन्द्रगोपक इति वा बालदिवाकर इति वा सन्ध्याभ्रराग इति वा, गुञ्जार्द्धराग इति वा जात्यहिङ्गुलुक इति वा, शिलाप्रवालमिति वा प्रवालाङ्कुर इति वा लोहिताक्षमणिरिति वा लाक्षारस इति वा कृमिराग इति वा रक्तकम्बल इति वा चीनपिष्टराशिरिति वा जपाकुसुममिति वा पारिजातकुसुममिति वा रक्तोत्पलमिति वा, रक्ताशोक इति वा, रक्तकणवीर इति वा, रक्तबन्धुजीवक इति वा, भवेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः तेषां खलु लोहितकानां तृणानां मणीनां च इतइष्टतरक एव यावद्वर्णेन प्रज्ञप्तः । तत्र खलु यानि तानि हारिद्रकाणि तृणानि च मणयश्च तेषां खलु अयमेतावद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथानामकः चम्पक इति वा चम्पकत्वगिति वा, चम्पकभेद इति वा हरिद्रेति वा हरिद्राभेद इति वा, हरिद्रा - गुटिका इति वा हरितालिकेति वा हरितालिका भेद इति वा हरितालिका गुटि के ति वा, चिकुर इति वा, चिकुराङ्गराग इति वा, वरकनक इति वा, वरकनकनिघर्ष इति वा, सुवर्णशिल्पिक इति वा वरपुरुषवसन मिति वा शल्लकीकुसुममिति वा, चम्पककुसुममिति वा, कुष्माण्डका कुसुममिति वा, कोरण्टकदाम वा इति तडवडा कुसुममिति वा, घोषात की कुसुममिति वा, सुवर्णयूथिका कुसुममिति वा, सुहरिण्यकाकुसुममिति वा कोरण्टकवरमाल्यदाम इति वा बीयककुसुममिति वा पीताशोक इति वा, पीतकणवीर इति वा पीतबन्धुजीवक इति वा, भवेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः, तेषां खलु हारिद्राणां तृणानां मणीनां च इत इष्टतरक एव यावद्वर्णेन प्रज्ञप्तः । तत्र खलु यानि तानि शुक्लानि तृणानि च मणयश्च तेषां खलु अयमेतावद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथानामकः अङ्ग इति वा शङ्ख इति वा चन्द्र इति वा कुन्द इति वा कुमुद इति वा उदकरज इति वा दधिधनमिति वा, क्षीरमिति वा, क्षीरपूरमिति वा, हंसाबली तिवा, शारदिक बालाहक इति वा ध्मातधौतरूप्यपट्ट इति वा शालिपिष्टराशिरिति वा कुमुदराशिरिति वा शुष्कळेवाडीति वा पेहुणभिजे इति वा बिसमिति वा मृणालिका इति वा गजदन्त इति वा लबंगदलमिति वा पौण्डरीक दलमिति वा सिन्दुवारमाल्यदाम इति वा श्वेताशोक इति वा, श्वेतकणवीर इति वा श्वेतबन्धुजीव इति वा भवेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः तेषां खलु शुक्लानां तृणानां मणीनां चेत इष्टतरक एव यावद्वर्णेन प्रज्ञप्तः । तेषां खलु भदन्त ! तृणानां मणीनां च कीदृशो गन्धः प्रज्ञप्तः ? तद्यथा नामकः कोष्टपुटानां वा पत्रपुटानां वा, • જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy