SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू.४० ए० इन्द्रमहोत्सवादि वि. प्रश्नोत्तराः ६४१ जगणाः प्रज्ञप्ताः श्रमणायुष्मन् । अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे अश्व इति वा हस्तीति वा उष्ट्र इति वा गोण इति वा महिष इति वा खर इति वा घोटक इति वा अजेति वा एडकेति वा ? हन्त अस्ति, नैव खलु तेषां मनुजानां परिभोगतया हव्यमागच्छन्ति । अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे सिंह इति वा व्याघ्र इति वा वृक इति वा द्वीपिका इति वा ऋक्ष इति वा पराशर इति तरक्ष इति वा शृगाल इति वा विडाल इति वा शुनक इति वा कोलशुनक इति वा कोकदन्तिकेति वा शशक इति वा चित्रल इति वा चिल्ललक इति वा ? हन्त अस्ति, नैव खलु ते अन्योऽन्यस्य तेषां वा मनुजानां किञ्चिदाबाधां वा प्रबाधां वा उत्पादयन्ति वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकाः खलु श्वापदगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे शालिरिति वा ब्रीहिरिति वा गोधूम इति वा यव इति वा तिल इति इक्षुरिति या ? हन्त अस्ति, नैव खलु तेषां मनुजाणां परिभोगतया हव्यमागच्छन्ति । अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे गर्त्ता इति वा दरी इति वा घंसी इति वा भृगुरिति अवपात इति वा विषममिति वा विजलमिति वा धूलिरिति वा रेणुरिति वा पङ्क इति वा चलनीति वा? नायमर्थः समर्थः, एकोरुकद्वीप खलु द्वीपे बहुसमरमणीयः भूमिभागः प्रज्ञप्तः श्रमणायुष्मन् ! । अस्ति खलु भदन्त । एकोरुक द्वीपे द्वीपे स्थाणुरिति वा कण्टक इति वा हीरक इति वा शर्करा तृणकचवर इति वा पत्रकचवर इति वा अशुचिरिति वा पूतिकमिति वा दुरभिगन्ध इति वा अचोक्ष इति वा ? नायमर्थः समर्थः, व्यपगत स्थाणुकण्टकहीरक शर्करा तृणकचवरपत्रकचवराशुचि पूतिक दुरभिगन्धाचोक्षः खलु एकोरुकद्वीपः प्रज्ञप्तः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे दंश इति वा मशक इति वा पिशुक इतिवा केति वा लिक्षेति वा ढंकुण इति वा ? नायमर्थः समर्थः, व्यपगतदंशमशकपिशुक यूकालिक्षाढङ्कणः खलु एकोरुकद्वीपः प्रज्ञप्तः श्रमणायुष्मन् ! । अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे अहिरिति वा अजगर इति वा महोरग इति वा १, हन्त ! अस्ति नैव खलु ते अन्योऽन्यस्य तेषां वा मनुजानां किञ्चिदाबाधां वा प्रबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकाः खलु ते व्यालगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे ग्रहदण्ड इति वा ग्रह मुशलमिति वा ग्रहगर्जितमिति वा ग्रहयुद्धमिति वा ग्रहसंघाटक मितिवा ग्रहापसव्यमिति अइति वा अभ्रवृक्ष इति वा सन्ध्येति वा गन्धर्वनगर मिति वा गर्जितमिति विद्युदिति उल्कापात इति वा दिग्दाह इति वा निर्घात इति वा पांसुवष्टिरिति वा यूपक इति वा यक्षादीप्तमिति वा धूमिकेति वा महिकेति वा रजउद्धात इति वा जी० ८१ જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy