SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ सू.२१ नारकाणां नरकभवानुभवननिरूपणम् २९१ औरसबलसमन्वागनः छेको दक्षः प्रष्ठः कुशलो निपुणः मेधावी निपुणशिल्पोपगतः, एकं महदयःपिण्डमुदकवारक सनानं गृहीत्वा तं तापयित्वा तापयित्वा कुट्टयित्वा कुट्टयित्वा उद्भिद्योद्भिद्य चूर्णयित्वा चूर्णयित्वा यावदेकाहं वा द्वयहं वा व्यहं वा उत्कर्षेण अर्द्धमासं वा संहन्यात्, अथ खलु तं शीतं शीतीभूतमयोमयेन संदशकेन गृहीत्वा असद्भाव प्रस्थापनया उष्णवेदनीयेषु नरकेषु प्रक्षिपेत्, स खलु तम् उन्मिपित निमिषितान्तरेण पुनरपि प्रत्युद्धरिष्यामीतिकृत्वा प्रवितरमेव पश्येत्, दृष्ट्वा प्रविलीनमेव पश्येत् प्रविध्वस्तमेव पश्येत्, नैव खलु शक्नुयात, अवितरं वा अविलीनं वा, अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम् । स यथा वा मत्तमातङ्गः द्विपकः कुञ्जरः पष्टिहायनः प्रथमशरत्कालसमये वा, चरमनिदाघकालसमये वा, उष्णाभिहतः तृषामिहतो दावाग्निज्वालाभिहतः आतुरः शुषितः पिपासितो दुर्वल क्लान्ता, एका महतीं पुष्करिणी पश्येत् चतुष्कोणां समतीरा मानुपूर्व्य सुजातवप्रगम्भीरशीतलजलाम् संछन्न पत्रविसमृणालाम्, बहूत्पलकुमुदनलिनसुभग सौगन्धिकपुण्डरीक महापुण्डरीक शतपत्रसहस्रपत्रकेसरफुल्लोपचिताम् षट्पदपरिभुज्यमानकमलाम् अच्छविमलसलिलपूर्णाम् पडिहत्थभ्रमन्मत्स्यकच्छपाम् अनेक शकुनगणमिथुन कविरचित शब्दोन्नतिक मधुरस्वरनादिताम्, तां पश्यति तां दृष्ट्वा तामवगाहेत, अवगाह्य स खलु तत्रोष्णमपि प्रविनयेत् तृषामपि प्रविनयेत् क्षुधामपि प्रविनयेत् ज्वरमपि प्रविनयेत् दाहमपि प्रविनयेत् निद्रायेत वा प्रचलायेत वा स्मृति वा रति वा धृति वा मति वा उपलभेत, शीतः शीतीभूतः संक्रामन् संक्रामन् सातासौख्यबहुलश्चापि विहरेत्, एवमेव गौतम ! असद्भाव प्रस्थापनया उष्ण वेदनीयेभ्यो नरकेभ्यो नैरयिक उद्वृत्तः सन् यानि इमानि मनुष्यलोके भवन्ति गौडिकालिंछानि वा शौंडिकालिंछानिवा, लिण्डिकालिंछानि वा, अय आकरा इति वा, ताम्राकरा इति वा, पुकाकरा इति वा, सीसकाकरा इति वा, रूप्याकरा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा काराग्निरितिवा, मुषाग्निरिति वा-इष्टकाग्निरिति वा कवेल्लुकानिरिति वा लोहकाराम्बरीष इति वा. यन्त्रपाकचुल्लोरिति वा, गौडिकालिंछाग्निरिति वा क्षौण्डिकलिंछाग्निरिति वा, लिण्डिकालिंछाग्निरिति वा नलाग्निरिति वा, तिलाग्निरिति वा, तुषाग्निरिति वा. तप्तानि समज्योतिर्भूतानि फुल्लकिंशुकसमानानि उल्कासहस्राणि विमुच्यमानानि ज्वालासहस्राणि प्रमुच्यमानानि अङ्गार सहस्राणि पविक्षरन्ति अन्तरन्तहहयमानानि तिष्ठन्ति तानि पश्यन्ति । तानि दृष्टवा तानि अवगाहेत तानि अवगाह्य स खलु तत्रोष्णमपि प्रविनयेत् क्षुधामपि प्रविन - येत् ज्वरमपि प्रविनयेन दाहम पिप्रविनयेत्, निद्रायेत वा, प्रचलायेत वा स्मृति वा रति वा धृति वा मतिं वा उपलभेत शीतः शीतीभूतः संक्रामन् संक्रामन् साता. જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy