SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २२ भगवतीसूत्रे दशधापि, संख्येयधापि क्रियते, द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतः असंख्येयमदेशिक: एक स्कन्धो भवति अथवा एकत: संख्येयप्रदेशिकः स्कन्धः, एकतः असंख्येयपदेशिकः स्कन्धो भवति, अथवा द्वौ असंख्येयप्रदेशिको स्कन्धौ भवतः। त्रिधा क्रियमाणः एकतो द्वौ परमाणुपुद्गलौ, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्विप्रदेशिकः स्कन्धः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति यावत्-अथा एकतः परमाणुपुद्गलः, एकतो दशप्रदेशिकः स्कन्धः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकत: संख्येयप्रदेशिकः स्कन्धः एकतः असंख्येयप्रदेशिकः स्कन्धो भवति अथवा एकतः परमाणुपुद्गलः, एकतो द्वौ असंख्येयप्रदेशिको स्कन्धौ भवतः, अथवा एकतः द्विपदेशिकः स्कन्धा, एकतो द्वौ असंख्येयप्रदेशिको स्कन्धौ भवतः, एवं यावत्अथवा एकतः संख्येयप्रदेशिकः स्कन्धो भवति, एकतो द्वौ असंख्येयप्रदेशिको स्कन्धौ भवतः, अथवा त्रयः असंख्येयप्रदेशिकाः स्कन्धा भवन्ति । चतुर्धा क्रिया माणः एकतस्त्रयः परमाणुपुद्गलाः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति । एवं चतुष्ककसंयोगो यावत् दशकसंयोगः । एते यथैव संख्येयप्रदेशिकस्य, नवरम् असंख्येयकम् एकम् अधिकं भणितव्यम् , यावत्-अयश दशअसंख्येयप्रदेशिकाः स्कन्धाः भवन्ति । संख्येयधा क्रियमाणः एकतः संख्येयाः परमाणुपुद्गला: एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः संख्येयाः द्विप्रदेशिका: एकतः असंख्येयपदेशिकः स्कन्धो भवति, एवं यावत् अथवा एकतः संख्येयाः दशपदेशिकाः स्कन्धाः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः संख्येयाः संख्येयप्रदेशिकाः स्कन्धाः, एकतः असंख्येयप्रदेशिका स्कन्धो भवति, अथवा संख्येयाः असंख्येयपदेशिकाः स्कन्धाः भवन्ति । असंख्येयधा क्रियमाणः अपंख्येयाः परमाणु पुद्गला भवन्ति । अनन्ता: खलु भदन्त ! परमाणु पुद्गलाः यावत् किं भवति ? गौतम ! अनन्तप्रदेशिका स्कन्धो भवति, स भिद्यमानो द्विधापि, त्रिधापि, यावत् दशधापि, संख्येयधा, असंख्येयधा, अनन्तधापि क्रियते । द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतः अनन्तप्रदेशिकः स्कन्धो यावत्-अथवा द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः त्रिधा क्रियमाणः एकतो द्वौ परमाणु पुद्गगलौ, एकतः अनन्तपदेशिकः स्फन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्विपदेशिकः स्कन्धः, एकतः अनन्तपदेशिकः स्कन्धो भवति, यावत्-अथवा एकतः परमाणुपुद्गलः, एकतः असंख्येयप्रदेशिकः स्कन्धः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः, अथवा एकतो द्विपदेशिकः स्कन्धो भवति एकतो द्वौ अनन्तप्रदेशिको શ્રી ભગવતી સૂત્ર : ૧૦
SR No.006324
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages735
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy