SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ६८८ आचारांगसत्रे आयुष्मन् ! श्रमण ! अनुगच्छ तावत् ते वयम् अन्यतरद् वसं दास्यामः, स पूर्वमेव आलोचयेत-पायुष्मन् ! इति वा भगिनि ! इति वा, न खलु मे कल्पते संकेतवचनं प्रतिश्रोतुम, तं तदेवं वदन्तम् परो नेता वदेत-आयुप्मन् इति वा भगिनि ! इति वा आहर एतद वखं श्रमणाय दास्यामः अपि च वयं पश्चादपि आत्मनः स्वार्थम् (आत्मार्थम्) प्राणान् भूतानि जीवान् सत्वान् समारभ्य समुद्दिश्य यावत् चेतयिष्यामः करिष्यामः, एतत्प्रकारम् निर्घोष श्रुत्वा निशम्य तथाप्रकारं वस्त्रम् अप्रामुकम् अनेषणीयं यावद् न प्रतिगृह्णीयात् । स्यात् परो नेता वदेत्-आयुष्मन् ! इति वा भगिनि ! इति वा आहर एतत् वस्त्रम् स्नानेन वा कर्केण वा लोघेण वा चूर्णेन वा आघj वा प्रघय वा श्रमणाय दास्यामः, एतत् प्रकारं निघोष श्रुत्वा निशम्य स पूर्व मेव आलोचयेत् आयुष्मन् ! इति वा भगिनि ! इति वा मा एतत् त्वं वस्त्रं स्नानेन वा कर्केण वा लोघेण वा चूर्णेन वा यावत् प्रघर्षस्त्र ! अभिकाक्षसि मे दातुम्, एवमेव ददस्त्र । स तस्य एवं वदतः परः स्नानेन वा कर्केण वा लोधेण वा चूर्णण वा प्रघj दद्यात्, तथाप्रकारं वस्त्रम् अप्रासुकम् यावद् न प्रतिगृह्णीयात् स परो नेता वदेत् आयुष्मन् ! इति वा भगिनि ! इति वा आहर एतद् वस्त्रम् शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षाल्य वा प्रक्षाल्य वा श्रमणाय दास्यामः, एतत्प्रकारं निर्दोष श्रुत्वा निशम्य तथैव नवरम् मा एतत् त्वं वस्त्रम् शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षाल्य वा प्रक्षाल्य वा ददस्व, अभिकाक्षसि मे दातुम्, एवमेव ददस्त्र, शेषं तथैव यावद् नो प्रतिगृह्णीयात्, स परो नेता वदेत-आयुष्मन् ! इति वा भगिनि ! इति वा आहर एतद् वस्त्रम् कन्दानि वा मूलानि वा यावत् हरितानि वा विशोध्य श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथैव नवरम् मा एतानि त्वं कन्दानि वा मूलानि वा यावत् विशोध्य ददस्व; नो खलु मे कल्पते एतत्प्रकाराणि वस्त्राणि प्रतिग्रहीतुम्, स तस्य एवं वदतः परो नेता यावद् विशोध्य दद्यात, तथाप्रकारं वस्त्रम् अप्रासुकम् नो प्रतिगृह्णोयात् । स्यात् स परो नेता वस्त्रं निसृजेत्, स पूर्वमेव आलोचयेत्-आयुष्मन् ! इति वा भगिनि ! इति वा तवचैव सान्तिकं वस्त्रम् अन्तोपान्तेन प्रत्युपेक्षिष्ये, केवली ब्रूयाद् आदानमेतत्, वस्त्रान्तेन बद्धं स्यात् कुण्डलं वा गुणं वा हिरण्यं वा सवर्ण वा मणिर्वा यावद रत्नावली वा, प्राणी वा बोजं वा हरितं वा, अथ भिक्षणां पूर्वोपदिष्ट मेतत् यत् पूर्वमेव वस्त्रम् अन्तोपान्तेन प्रतिलेखयेत् ॥ सू. ६॥ टीका-सम्प्रति साधूनां साध्वीनाञ्च वस्त्रग्रहणप्रतिज्ञा विशेषमधिकृत्य प्ररूपयितुमाह'दुचेडयाई आयतणाइं उबाइकम्म' इत्येतानि पूर्वोक्तानि वक्ष्यमाणानि च आयतनानि अव साधु और साध्वी को वस्त्र ग्रहण की प्रतिज्ञा विशेष को लक्ष्यकर बतलाते हैं હવે સાધુ અને સાધ્વીને વસ્ત્ર ગ્રહણની પ્રતિજ્ઞા વિશેષને ઉદ્દેશીને સૂત્રકાર કથન કરે છે. A1--'इच्चेइयाइं आयतणाई उवाइकम्म' पूति तथा 2011 ४ामा भावना२ દોષ સ્થાનેનું અતિક્રમણ કરીને અર્થાત્ ઉક્ત પ્રકારના તથા આગળ કહેવામાં આવનારા श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy