SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ - कल्प- स्तोत्रादि- सन्दोह ]. - [ ६३ ] सहस्रशः शत्रुभटान् अचूर्णयत् । अथ जरासन्धोऽपि रोषान्धः सन् कृष्णं प्रति रथमचालयत् । कृष्णोऽपि वैरिवनदावाग्निरिव प्रसरत्प्रतापः संमुखं रथं प्रेरयामास । ततस्तयो रथचक्रेः पिष्टा भूमिर्विश्वमङ्गभ्रमं जनयामास । ततः शस्त्रैः शस्त्राणि दिव्यादिव्यास्त्राणि हरन्तौ तौ वीरगौण्डीरौ उदयाचलास्ताचलावित आस्फलताम् । ततचिरं युध्यमानो जरासन्धः प्रक्षी सर्वाः कोवारुणो भूत्वा चक्रं स्मरति स्म । ततो वह्निगान् विमुञ्चत् चक्रं तस्य हस्ते आजगाम । ततोऽतिरोषाज्जरासन्धः कृष्णं प्रति माह, रे रे गोप ! अद्यापि गर्व त्यक्त्वा ममाज्ञां मन्यस्व । जीवन् सन् पुनर्गोपालनलक्षणेन स्वकुलकर्मणा वृत्तिं करिव्यसि, नो चेत् इदं चक्रं तब शिरो लुनिष्यते, इदं प्रलपन्तं जरासन्धं कृष्णः प्राह, हे जरासन्ध ! त्वया सत्यमुक्तं यतो गोशब्देन पृथ्वी उच्यते, तस्याः पालनमेव अस्माकं कुलकर्म ततस्त्वां हत्वा अहं जीवन् पृथ्वीपालनरूपं स्वकुलकर्म समाचरन् वर्त्तिव्ये । ततश्चक्रं मुञ्च विलम्बं किं करोषि ? इति श्रुत्वा जरासन्धोऽपि रोषात् तचक्रं भ्रमयित्वा कृष्णं प्रति मुमोच । ततस्तचक्रं वेगात् कृष्णं प्रदक्षणीकृत्य कृष्णस्यव हस्तोपरि अतिष्ठत् । ततः कृष्णोऽपि स्वस्य वासुदेवत्वं निश्चित्य तच्चक्रं करे कृत्वा जरासन्धं प्रति मुमोच । तदपि रणरणत्कारं कुर्वत् तत्र गत्वा जरासन्धस्य गलनालं चिच्छेद । तच्चक्राहतो मगवेशो मृत्वा चतुर्थ नरकं प्राप । तत आकाशे " जय जय कृष्ण ! नवमवासुदेव ! चिरकालं त्रिख
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy