________________
[ ५२ ]
-[ शवेश्वर-महातीर्थपुरा जरासि (स)न्धचतुर्भुजाहवे हरेबले वैरिविसंस्थुलेऽखिले। श्रीनेमिनाथो नृपलक्षमेकः प्रपूर्य शङ्ख विजिगाय यत्र ।२४३॥
तदा संस्थापितस्तत्र श्रीनेमिविष्णुना जिनः । तं जिनं तत्र संपूज्य शोश्वरपुरं ययौ ॥२४४॥ शवः श्रीनेमिनाथेन यजरासन्धविग्रहे । नृपलक्षजयेऽपूरि तस्मात् शखेश्वरं पुरम् ॥२४५॥ तत्पुरालङ्कृतिः श्रीमानास्ते पार्श्वजिनेश्वरः। यश्चिरं प्राणतस्वर्गाधीश्वरेण पुराऽर्चितः ॥२४६॥ चतुःपञ्चाशल्लक्षाणि वर्षाणां प्रथमे गवि । पूजितस्तदधीशेन भावभूषितचेतसा ॥२४७॥ लक्षाणि तत्पमाण्येव चन्द्रेन्द्रेणाथ पूजितः । सूर्येन्द्रेण तत्ममा(नि)णि लक्षाणि परिपूजितः ॥२४८॥ पातालेऽपि च तावन्ति वर्षलक्षाणि तक्षकः ।
पन्नगाधिपतिभक्तिसंयुतो यमपूजयत् ॥२४९॥ पातालात् प्रतिवासुदेवसमरे श्रीवासुदेवेन यः
सैन्ये मारिभयादिते विलसति श्रीनेमिनाथाज्ञया । तच्छान्त्यै प्रकटीकृतोऽथ सहसा तत्स्नात्रवारिच्छटासंयोगेन जनोऽखिलोऽपि विदधे नीरुक्सपार्श्वः श्रिय।।२५९॥ तत्र तीर्थे महादान-महापूजा-महाध्वजाः । कृत्वा सर्वविधि साधुः श्रीपार्श्व प्रणिपत्य सः ॥२५॥