SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता मानवीदेव्याः स्तुतिः घनरुचिर्जयताद् भुवि 'मानवी गुरुतराविहतामरसङ्गता । कृतकराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता ॥ ४ ॥१०॥-द्रुत० । ११ श्रीश्रेयांसजिनस्तुतयः । अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् ‘श्रेयांसं न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ १ ॥ -हरिणी ( ६, ४, ७) जिनवराणां तल्लक्षणगर्भितस्तुति: जिनवरततिर्जीवालीनामकारणवत्सला____ऽसमदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुपतया नृता तनोतु मतिं ममा ऽसमदमहितामारादिष्टा समानवराजया ॥२॥ -हरिणी जिनागमस्य स्तुतिः भवजलनिधिभ्राम्यजन्तुबजायतपोत ! हे तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपतिं तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ३ ॥-हरिणी १.तराऽविहता. ' इत्यपि पाठः । २ 'प्रणमततमा' इत्यपि पाठः । ३ '०माराऽऽदिष्टासमानवरा जया' इत्यपि पाठः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy