SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ (नस्तुतयः ] स्तुतिचतुर्विंशतिका श्रीचक्रधरायाः स्तुतिः याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात् समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु सा मुदे-- समतनुभा गवि कृतधीरसमदवैविधा महारिभिः ॥ ७२ ॥१८॥ -द्विपदी टीका येति । 'या ।। अत्र ' अस्मिन् जगति । 'विचित्रवर्णविनतात्मजपृष्ठं विचित्रवर्णःशबलवर्णः "आजानु कनकगौरम्" इत्यादिवचनात् यो विनतात्मजो-गरुत्मान् तस्य पृष्ठंगांवोपरिभागम्। 'अधिष्ठिता' अधिरूढा । 'हुतात्समतनुभाव' हुतं अत्तीति हुताद्-अग्निः तत्सम तनु-मूर्ति भजते या सा। 'अविकृतधी:' अविकृता-अविकारिणी धीर्यस्याः सा । 'असमदवैरिव' असदृशदावैरिव । 'धामहारिभिः ' धाम्ना-तेजसा हारिभिः-कान्तैः। तडिदिव ' विद्युदिव । 'भाति ' शोभते । ' सान्ध्यघनमूर्धान ' सन्ध्याभवाम्भोदशिरसि । 'चक्रधरा' अप्रतिचक्रा । 'अस्तु' भवतु । 'सा' । 'मुदे' प्रीत्यै । 'असमतनुभा' समा च तनुश्च समतनुः, न समतनुः (असमतनुः )भा यस्याः सा । 'गवि' पृथिव्यां, स्वर्गे वा । 'कृतधीरसमदवैरिवधा' कृतो धीराणां समदानां वैरिणां वधो यया सा । ' महारिभिः' महद्भिश्चकैः। या विचित्रवर्णविनतात्मजपृष्ठं अधिष्ठिता सती सान्ध्यघनमूर्धनि तडिदिव भाति सा महारिभिः कृतधीरसमदवैरिवधा चक्रधरा मुदेऽस्त्विति सम्बन्धः ॥ ७२ ॥ अवचूरिः अरा एषां सन्तीत्यरीणि-चक्राणि।महान्ति च तान्यरीणि च तैर्महारिभिः-महाचकै याऽत्र-जगति चक्रधरा देवी-अप्रतिचक्रा देवी भाति-शोभते । कथंभूता ? । विविधवर्णगरुडपृष्ठमधिरूढा । हुतमत्तीति हुताद-वह्निस्तत्तुल्यां तनुं भजते । अविकृता-अविकारिणी धीर्यस्याः सा ।महारिभिः किंभूतः । असमानदवानलैरिव। धाम-तेजस्तेन हारिभिः-मनोहरैः। यथा विद्युत् सन्ध्याभवमेघमस्तके भाति तद्वत् । सा देवी मुदेऽस्तु-भवतु । समा च तनुश्च समतनुः, न समतनुरसमतनुः, एवंविधा भा यस्याः । गवि-पृथिव्यां स्वर्गे वा । कृतो धीराणां समदानां वैरिणां वधो यया ॥७२॥ अन्वयः या विचित्र-वर्ण-विनतात्मज-पृष्ठं अधिष्ठिता, हुताद-सम-तनु-भाय, अ-विकृत-धीः, अ-सम-दवैः इव धामन्-हारिभिः महत्-अरिभिः, सान्ध्य-घन-मूनि तडित् इव अत्र भाति, सा अ-सम-तनु-भा, गवि कृत-धीर-स-मद-चैरिन्-वधा चक्रधरा मुदे अस्तु ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy