SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ૧૨ સ્તુતિચતુર્વિશતિકા [१६ श्रीanldતેમજ સંતાનકના અંતે છે જેમાં એવી ] માલાને ધારણ કરનારા એવા તથા વળી કુન્દ (કુસુમ) ના સમાન (શ્વેત) કીર્તિ વડે વ્યાપ્ત એવા, અને વળી પ્રાપ્ત કર્યું છે ઐક્યનું પણ સામ્રાજય જેમણે એવા તેમજ નષ્ટ થયું છે શત્રુ-સમૂહ જેને એવા દેવ-વર્ગની કાન્તાઓ વડે પૂજિત [અથવા વૈરિ–રહિત એવા વિદ્વદ્દ–વર્ગના મસ્તકના અન્ત (ભાગ) વડે પૂજાયેલા] એવા (હેવા છતાં પણ) જે (જિનેશ્વરોએ) જરા પણ ગર્વ ન કર્યો, તે જિનેશ્વર जयवंत व."-१२ जिनमतस्य स्तुतिः जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा__ लीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पयुलसल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ ६३ ॥ -शार्दूल. टीका जैनेन्द्रामिति । 'जैनेन्द्र' जिनेन्द्रसम्बन्धि । ' मतं ' दर्शनम् । 'आतनोतु ' प्रथयतु । 'सततम्' अजस्रम् । 'सम्यग्दृशाम्' अविपरीतबुद्धीनाम् । 'सद्गुणालीलाभम्' साधुगुणावलीमाप्तिम् । 'गमहारि' गममनोहरम् । 'भिन्नमदनम्' विदारितस्मरम् । 'तापापहृत् ' तापं अपहरति यत् तत् । 'यामरम् । यामा:-यमाः तान् राति-ददाति यत् तत् । 'दुर्निर्भेदनिरन्तरान्तरतमोनिनाशि' दुर्भेद-दुःखभेद्यं निरन्तरं-निर्विवरं आन्तरं-मनोऽन्तर्भवं तमः-मोहं निर्नाशयत्येवंशीलं यत् तत् । 'पर्युल्लसल्लीलाभङ्गमहारिभित् ' पर्युल्लसल्लीलान्-प्रोद्यद्विलासान् अभङ्गान्-अजेयान् महारीन्महामतिपक्षान् भिनत्ति यत् तत् । 'नमदनन्तापापहृयामरम् ' नमन्तोऽनन्ताः अपापा:-हृद्याः अमरा यस्य तत् ।। ६३ ॥ अवचूरिः जैनेन्द्र-जिनेन्द्रप्रोक्तं मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किंविशिष्टम् ।। गमाःसहशपाठास्तैोरि-मनोहरम् । भिन्नो-विदीर्णो मदनः-अनको येन । तापं-संसारभ्रमणजमपहरतीति । यमानि-व्रतानि रातीति। दुर्निर्भेद-दुःखभेद्यं निरन्तरं-निर्विवरं-अन्तरं-अन्तर्भवं तमो-मोहं निर्माशयतीत्येवंशीलम्। पर्युल्लसल्लीलान् प्रोद्यद्विलासान अभङ्गान्-अजेयान महारीन्-महावैरिणो भिनत्तीति। नमन्तोऽनन्ता-अप्रमाणाः अपापहृद्या अमरा यस्य ॥ ६३ ॥ अन्वयः गम-हारि, भिन्न-मदनं, ताप-अपहत, याम-रं, दुनिभेद-निरन्तर-आन्तर-तमसू-निर्नाशिन्-पर्युल्लसत्-लीला-अभङ्ग-महत्-अरि-भिद, नमत्-अनन्त-अपाप-हृद्य-अमरं जैनेन्द्रं मतं सम्यच्-दृशां सद्गुण-आली-लाभं सततं आतनोतु ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy