SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ २ श्रीअजितजिनस्तुतयः ... अथ अजितनाथ-प्रणाम: तमजितमभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् ॥ ५ ॥ -पुष्पिताग्रा - टीका - तमजितमिति । 'तं अजितं ' त अजिताभिधानं जिनं 'अभिनौमि' अभिष्टुवे । 'यो विराजनघनमेरुपरागमस्तकान्तं ' यो भगवान् विराजद्भिवनैः काननैनो-निरन्तरो मेरुलक्षणो यः परागः प्रधानपर्वतः तस्य मस्तकान्तं-शिखरानं, अथवा विराजद्वनाः-शोभमानाम्भसो घना-मेघा यस्मिन् तत् तथाभूतं अरुसम्बन्धिनं परागं-प्रधानद्रुमं मस्तकान्तम् । 'निजजननमहोत्सवे ' स्वजन्ममहामहे । ' अधितष्ठौ । अधिष्ठितवान् । 'अनघनमेरुपरागं । अनघो-निरवद्यो नमेरूणां-देवक्षविशेषाणां परागो-रेणुर्यत्र तं तथोक्तम् । अस्तकान्तं' अस्तगिरिर्मन्दरस्तद्वत् कान्तं । कमनीयं, कदाचिदस्ता उज्झिताः कान्ता योषितो येनेति भगवतो विशेषणमित्यादि ॥५॥ .. अवचूरिः यः स्वामी निजजन्मोत्सवेऽधितष्ठौ । किं कर्म । विराजद्भिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखरायम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखरायम् । अस्तोऽस्तगिरिस्तद्वत् कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥५॥ अन्वयः यः निज-जनन-महत्-उत्सवे अनघ-नमेरु-परागं अस्त-कान्तं विराजत-वन-धन-मेरुपर-अग-मस्तक-अन्तं अधितष्ठौ, तं अजितं अभिनौमि ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy