________________
श्रमणा ब्राह्मणाश्च, अनुयोगे सत्युक्तस्य हेतुं यदि पृच्छथेत्यर्थः, एवमेव जानीत खलु भो यथा ग्रामे वाऽरण्ये वा, केवले वा ग्रामे न त्वरण्ये यदि कश्चिदिम लोकमभिनिश्रयेत सेवेत परं वा लोकं देवलोकं प्रणिश्रयेत, न तत् सारवद् उभयोर्लो कयोरप्रतिष्ठितत्वादशाश्वतत्वात्। एष युक्तोपायानामयुक्तयोगः। तदेवोदाहरति यथा अकामको बाहुको मतः स्मृतः, मुक्तकामो ह्यकामकस्तपश्चरतेः चरितवान्, अकामकः कालगतः पूर्वकर्मवशान्नरकं प्राप्तः, मनुष्यलोकोपपन्नोऽकामकः प्रव्रजितस्तपश्चरितवान् कालगतः सिद्धि प्राप्तः सर्वत्राकामकः। सकामकस्तद्वत्, केवलं किं सिद्धि प्राप्त इति प्रश्नः, नेत्युत्तरम्।। बाहुकाध्ययनम्।
15
शातं सुखं, तस्मादुत्पन्नं दुःखं शातदुःखम्। किं तेनाभिभूत उताशातदुःखेनाभिभूतो दुःखी दुःखमुदीरयतीति पृच्छा। न शातदुःखेन नाशातदुःखेनेत्युत्तरम्, उदीरणाहेतोनिःसारत्वादित्यर्थः संभाव्यते। अपरा पृच्छा यथा किं दुःखी शातदुःखेनाभिभूतस्योताशातदुःखेनाभिभूतस्य परस्य दुःखिनो दुःखमुदीरयतीति। शाताभिभूतस्येत्युत्तरं दुःखिनोऽभिभवपूर्वं सुखीभावात्। पृच्छा च व्याकरणं चेति प्राचीनटिप्पणी। पुनः पृच्छा यथा किं शान्तं बाधारहितं दुःखं दुःख्युदीरयत्युताशान्तमिति। शान्तमेवेत्युत्तरमुदीरितस्योदीरणाया निरर्थकत्वात्।--दुःखेन खलु भो अप्रहीणेनेत्यादि नवमाध्ययनगमेन नेतव्यं कम्म त्ति स्थाने दुःखाभिलापेन (1)।। (2)।। कन्दस्यैवं सति स्वभावे। ध्रुवं निःशङ्क वल्ल्यारोहणं भवति, बीजे समुह्यमानेऽपि अङ्कुरस्यैव संपद् भविष्यति (3)।। (4) (5)।। पापघाते हतं दुःखं यथा फलं हतं पुष्पघाते कृते, कुतस्तालफलस्य संभवो विद्धायां सत्याःमूर्धसूच्यां हते, तालपादपस्य शिखरे, तालफलानि द्रमस्याग्रे पच्यन्त इति प्रसिद्धम् (6)।। (7)।। दुःखितो दुःखघातार्थमन्यं कञ्चिच्छरीरिणं पुरुषं दुःखाकृत्वा वेदनां प्रापयित्वा एकस्य दुःखस्य प्रतीकारेणान्यद् दुःखं निबध्नातीति विरोधः (8)।। (9) (10)।। परस्य पापं कुर्वन् हसति मोहमोहितः, मत्स्य इव गलमिति ग्रीवादीति न, किं त्वामिषं, तद् ग्रसन् विनिघातं विनाशं न पश्यति (11)।। (12)।। परोपघातपरो दर्पमोहमलैरुद्धर उद्धतो गुणदोषान् न विन्दति यथा वृद्धः सिंह उदपानं गतः प्राणिनो हन्ति विवेकमकृत्वा, यदि वा यथा सिंह एकविंशाध्ययनकथितः परं जिघांसते (13)।। (14) (15) (16) (17) (18) (19)।। पाषाणेनाऽऽहतः कीवः पक्षिविशेषः क्षिप्रं पाषाणं दशति, मृगारिः सिंह ऊषरं प्राप्य सरउत्पत्तिमेव मार्गति, कीव-सिंहौ निरर्थकं कुरुत इति भावः (20)।। तथा तेनैव प्रकारेण बालो दुःखी
ऋषिभाषित संस्कृत टीका 443