SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली नूनमयमेव चौरः, अनेनैव पत्रम्प्रेषितम् । यदधुनाऽवधारिते दिवसे सप्तमे स्वप्रतिज्ञापालनार्थमत्राऽऽगतोऽस्ति । परमेष प्रायेण बहुधा राजान्तिके मदन्तिके च समायाति । पूर्वपरिचितस्य लक्षणमन्तरा चौर - कथनमपि नैव संघटते । परं तत्रावसरे तस्य तत्राऽऽगमनादयमेव चौर इति स्वमनसि निश्चितवानपि वेषाडम्बरतया चिरपरिचिततया च तदानीमेष चौर इति व्यक्तीकर्तुं स नाऽशक्नोत् । - ततश्चौरोऽपि किञ्चित्कालं तत्र स्थित्वा तं नमस्कृत्य गन्तुमैच्छत् । तत्रावसरे कुमारेण स भणितः हे सज्जन ! प्रभाते पारणासमये त्वया मम गेहे समागन्तव्यमवश्यमेव । सोऽपि सहर्षं बहुमानपुरस्सरं कुमारकृतनिमन्त्रणमुररीचक्रे । I अथ जाते च प्रभाते कुमारः पौषधं समाप्य स्वावासं समागतः । तत्रैवं दध्यौ-अद्यावश्यमेवात्र निमन्त्रितश्चौरः समेष्यति । तन्मुखादेव चौरोऽहमिति ख्यापनार्थमेकस्मिन् पात्रे चन्द्रहासमद्यमिश्रितं दधि स्थापितमपरस्मिन् पात्रे च निजार्थं शुद्धं दधि स्थापितम् । अथागतस्तत्र चौरः । ततस्तौ रोहिणीयकुमारौ भोक्तुमुपविशतः । भृत्यो हि तस्मै चौराय मद्यमिश्रितं दधि ददौ, कुमाराय च शुद्धं ददौ । ताभ्याम्भुक्तम्, क्षणादेव स चौरो मद्ययोगाद्विकलो जातः । I ततस्तं प्रमत्तं विज्ञाय तमुत्थाप्य निजशयनस्थाने देवराजमन्दिरोपमे निजदिव्यपल्यङ्कोपरि स्वापितः स चौरः । तत्र च पूर्वमेव दिव्याम्बरा दिव्याऽऽभरणा देवाङ्गनोपमाश्चतस्रो युवत्यश्चामरादिकानि देवसूचकानि करे दधानाः स्थापिता आसन् । कियत्कालानन्तरं स पुमान् यदा स्वास्थ्यं लेभे, तदा दिव्ये भवने रत्नादिजटितं दिव्यविमान 52
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy