SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ततो जाते च प्रभाते विनिद्रो राजा स्नानादिकं विधाय विविधानि बहूनि दानानि चक्रे । पौरे च सर्वाः प्रजाः प्रमोदमापुः । तस्मै महीभुजे च सर्वे लोका आशिषो ददुः । इत्थं प्रजापालयतः प्रत्यहं तस्मै तथाविधबलिमर्पयतो राज्ञ एकदा मनस्येवं वितर्को जातः । एतस्मै प्रतिरात्रं बलिमित्थं समर्पयामि, यदा न दास्यामि, तदा पुनरसौ महोपसर्ग विधास्यति । अतः कोऽप्युपायो विधातव्यो येन तस्मै बलिर्दातव्यो न भवेत् । एवं शोचता विक्रमेणैकदा स वेतालो भणितः- भो देव ! ममायुः कियदस्ति? तेनोक्तं- त्वदायुः शतवर्षमस्ति । पुनः पृष्टं राज्ञा हे वीर ! एतदकशून्यतया सुन्दरं न प्रतिभाति । अतः शतमध्यात् किञ्चिदधिकं न्यूनं वा विधेहि । तदाकर्ण्य वेतालो वक्ति-हे राजन्! यत्ते षष्ठी दिने विधिना शतमायुः कृतं तन्न्यूनाधिकं कर्तुं विधिरपि न शक्नोति का वार्ता तदितरेषाम् । ततो वेतालो निजधाम गतः । ___अथान्यस्यां रात्रौ राज्ञा चिन्तितमेवम् - इह हि सत्यायुषि कमपि कोऽपि न हन्तुं शक्तिमानस्ति, तर्हि वेतालो मे किङ्करिष्यति । इति विश्वस्तेन तदर्थं बलि!पढौकितस्तत्र विक्रमेण । अथ मध्यरात्रे समागतो वेतालस्तत्र बलिमपश्यन् राज्ञे भृशं चुकोप | ततः कोपादतिभीषणं तमेवं राजाऽवदत् - हे वेताल ! अलमिदानी कोपेन । यदि शक्ति बिभर्षि, तर्हि समागच्छतु भवान्, मया सह युध्यताम् । ततो विक्रमस्य साहसं विलोक्य तेनोक्तम् - हे राजन् ! त्वं नूनमेव सर्वेषां साहसिकानां सुभटानाञ्च शिरोमणिरसि। 1. आयुष्यरूपी कर्मेण 26
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy