SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ततः केनचित्कारणेन तन्निजबन्धुनृपकृतापमानासहमानः कनीयान् विक्रमकुमारः कोपाद्देशान्तरं गतवान् । राजा भर्तृहरिर्न्यायमार्गेण राज्यं पालयन्नासीत् । T तत्रावसरे निर्धन एको ब्राह्मणो निजभार्यया भणितः - हे स्वामिन्! धनैर्विना कुटुम्बपोषणं न सम्भवति, धनमर्जय । ततो भार्यया प्रेरितो ब्राह्मणः प्रचुरतरैश्वर्यं लब्धुकामस्तत्रैव सद्यः फलप्रदां 'हरसिद्धिं' देवीमाराधयितुमारेभे । परिपूर्णे चानुष्ठाने सा देवी प्रत्यक्षीभूय तमेवमवादीत्- हे ब्राह्मण ! तपसाऽनेन तवोपरि तुष्टास्मि । वरं ब्रूहि निजाऽभीष्टञ्च प्रार्थय । तदनु द्विजोऽपि तां प्रणम्य यथामति संस्तुत्य प्रोचे - हे मातः ! यदि तुष्टासि वरञ्च दित्ससि, तर्हि मह्यमजरामरफलन्देहि । ततः सा देवी तस्मै तत्फलं दत्त्वा निजस्थानङ्गता । ततस्तत्फलमादाय द्विज एवमचिन्तयत् । एतत्फलं नूनममुष्मै भर्तृहरिराजाय ददानि, स तुष्टो मे यथेष्टं धनं दास्यति, ततोऽहं सपरिवारः परमं सुखमनुभविष्यामि । इति विचार्य तत्फलं स राज्ञे दत्तवान् । तदीयमाहात्म्यञ्च सविस्तारं प्रोक्तवान् । तन्माहात्म्यं निशम्य विलक्षणमलभ्यञ्च तत्फलं गृहीत्वा नृपस्तमेवमपृच्छत् - हे विप्र ! एतत्फलं त्वया कथं कुत्र च लब्धम् ? नृपोक्तमाकर्ण्य यथा प्राप्तं तदादितः सर्वमपि वृत्तं स राजानमुक्तवान् । अथ सन्तुष्टो नृपस्तस्मै बहुविधं यथेष्टमाजन्मनिर्वाहक्षमं धनं प्रादात् । ततो विसृष्टे च विप्रे तत्फलं निजप्रेयस्यै सदा सुस्थिरयौवनस्थितिकामनया राजा ददौ । कथितञ्च - अयि प्रियतमे ! एतत्फलं - भुङ्क्ष्व । तथा सति तव सदैव तारुण्यं स्थास्यति, जरा तु कदापि 20
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy