SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली नमिविनमिनामानौ बान्धवौ येन येन पथा भगवान् विजहार, तत्र तत्र मार्गे, कण्टकानि कर्करादीनि च यानि यानि क्लिष्टान्यासन तत्सर्वाणि दूरे चिक्षिपतुः । तथा यत्र यत्र रजःपुञ्जमासीत् तत्र तत्राऽम्बुना तौ सिषिचतुः । किञ्च श्रीमद्भगवच्चरणयुगलं धूलिधूसरं मा भवत्विति विचिन्तयन्तौ तौ तन्मार्गं सुरभिकुसुमपुङ्खैराकीर्णञ्चक्राते । भगवतामुभयतस्तौ चामरयुगलं वीजयामासतुः । श्रीमदादीश्वरस्य भगवतो मार्गे गच्छतः पथि पुरतः कण्टकादिना भूशोधनं विदधाते । तथाऽवसर। मासाद्य भक्तिविनयाऽवनतौ तौ प्रभुं राज्याय प्रार्थयामासतुः । इत्थं श्रीमत्प्रभोः सद्भक्तिं विदधतोस्तयोः कियान् कालो यातः । अथैकदा सम्प्राप्ते च कस्मिन्नपि प्रस्तावे श्रीमत्प्रभुवन्दनायै धरणेन्द्रस्तत्राऽऽगतवान् । स हि प्रभुसेवातत्परौ तौ बन्धू विलोक्य पप्रच्छ, युवां प्रभोरीदृशीं भक्ति किमर्थं कुरुथः । तच्छ्रुत्वा ताववोचताम्भो धरणेन्द्र ! आवां राज्याय भगवन्तमादिनाथं सेवावहे । तच्छ्रुत्वा धरणेन्द्रोऽवक्- भो भक्तप्रवरौ ! साम्प्रतमसौ नीरागतामाधत्ते । एनम्प्रभुं राज्यं किमर्थं याचेथे ? तौ तदैवमाचक्षाते स्म - भो देवेन्द्र ! नूनमयमेव भगवान् आवाभ्याम्प्राज्यं राज्यं दाताऽस्ति । ततस्तयोरीदृशदृढतरविश्वासेन भगवद्भक्त्यसाधारण्येन च सन्तुष्टो देवस्ताभ्यामष्टचत्वारिंशत्सहस्रविद्या दत्तवान् । तथा तावुभौ भ्रातरौ वैताढ्यपर्वतीयाऽधिपती चक्रिवान् । तत्र वैताढ्यदक्षिणस्यां दिशि एकोनपञ्चाशन्नगराणि, तदुत्तरश्रेण्यामेकोनषष्टिग्रामा जनैराकीर्णा आसन् । धरणेन्द्रप्रदत्तविद्याभी राज्येन च तौ भ्रातरौ बभूवतुः । तद्वंशपरम्पराऽपि विद्याधरतामेव लेभे । तयोरेवं प्रभुभक्तिः प्रत्यक्षं I 5
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy