SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली पुत्रमोहवशङ्गताः पुत्राणां यदिष्टं तदेव चक्रुः ||२०|| ॐ ११ - अथ सगरचक्रवर्तिनः षष्टिसहस्रतत्पुत्राणाञ्च कथा T इह हि सगरचक्रवर्तिनः षष्टिसहस्रपुत्रा अभूवन् । तेऽष्टापदतीर्थस्य रक्षार्थमभितः परिखाकारं गतं कर्तुं प्रावर्तन्त । तदालोक्य ज्वलनप्रभनामा नागदेवस्तानवादीत् - भोः सागरा ! यूयमत्र महागर्तं खनथ तेनाऽस्मद्भुवने रजांसि पतन्ति, अत एतत्कर्मणो विरमध्वम् । तदानीं तत्कथनान्ते तत्कृत्यं ते तत्यजुः । अथ कियत्कालानन्तरं पुनस्ते दध्युः - याऽस्माभिर्महता परिश्रमेण परिखा खनिता साप्यधुना जलं विना विनङ्क्ष्यतीति सा जलैराशु परिपूरणीया । यथा कोऽप्यस्य तीर्थराजस्याऽऽशातनां न कुर्यात् इत्यवधार्य कृतैकमतिकास्ते निजदण्डयोगतः सार्धद्वाषष्टियोजनानि यावत्तत्र स्वकृतमहागर्ते गङ्गाप्रवाहमानिन्यिरे । तेन वै कियन्तो नगरा देशाश्च जलनिमग्ना अभूवन् । अथ गङ्गाम्भसा भृतां तावतीं परिखामालोक्य तेन वारिणा बुडितप्रायं निजभुवनञ्चोद्वीक्ष्य सञ्जातकोपः स नागदेवो निजमनस्यवदत्- अहो ! मया पुरा वारिता अप्यमी न नयवर्तन्त । समीहितञ्च साधितमेव, अत एतान् भस्मसाद्विधाय सुखी स्यामिति निश्चित्य तत्रागत्य तानालोक्य विषाग्नियोगादेकदैव तान् सर्वान् भस्मसादकरोत । अथ भस्मीभूतेषु सकलेषु कुमारेषु तत्सार्धमागता द्वात्रिंशत्सहस्र 319
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy