SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तामन्तःपुरे तिष्ठन्तीमेकदा काचिदेका सपत्नी पर्यपृच्छद्यथा - हे सखि ! रावणः कीदृशोऽस्तीति मां कथय । तदीयं रूपं ज्ञातुं कौतुकं महन्मे वर्तते । सीताऽवदत्- हे भगिनि ! मया कदापि तन्मुखं नाऽऽलोकि तत्कथं तद्रूपं वर्णयामि ? केवलं तस्य चरणावेव वीक्षितौ । तच्छ्रुत्वा सा तदैव पट्टिकां रम्यां लेखनसामग्रीञ्च सर्वामानीय सीताग्रे न्यस्तवती जगाद च - हे सखि ! अस्यां पट्टिकायां तस्य चरणावेव लिखित्वा दर्शय । सरलधीः सा सीता तस्यां रावणाऽङ्घ्री विलिख्य सपत्न्यै तस्यै ददौ । सा क्रूराशया सपत्नी तां पट्टिकामादाय तत्र च पुष्पादिकं दत्त्वा रामचन्द्रमदर्शयज्जगाद च - हे नाथ ! त्वं सदैव सीतां 'सतीं सतीमिति' कथयसि, तद्गुणान् प्रशंससि । सा तु प्रत्यहमित्थं तच्चरणौ विलिख्य पुष्पादिना पूजयति । अथ तस्याः कथनेन रावणचरणदर्शनेन च रामस्य मनसि शङ्का जाता । I पुनरेकस्यां रात्रौ रामो रूपान्तरेण नगरान्तर्नवनवचर्चां बुभुत्सुः प्रतिप्रतोलि गच्छन् सर्वेषामालापं शृण्वन्कस्यामेकस्यां तैलिकप्रतोल्यामागत्य तस्थौ । तावत्तत्र काचित्तैलिकस्त्री कस्मैचित्कार्याय दिनान्तसमये बहिर्जगाम । तस्या बहुविलम्बतयाऽनागतां वीक्ष्य तत्पतिः कुपितो द्वाःस्थकपाटे कीलकं दत्त्वा गृहान्तरतिष्ठत् । तावत्तत्पत्नी तत्रागत्य कपाटं सार्गलं वीक्ष्य जगाद - हे स्वामिन ! कपाटमुद्घाटय, द्वारि कपाटः सार्गलः कथं कृतः ? पतिरूचे - त्वमेतावत्कालं कुत्राऽऽसीस्तद्वद । त्वया विलम्बितं कुतः ? त्वमेवं · बुध्यसे, सत्यपि स्वेच्छाचारे भर्ता मे किङ्करिष्यतीति । परमहं रामचन्द्र 312
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy