SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली लङ्कापतिः प्रतिवासुदेवो रावणो रामस्य शीलवतीं जायां सीतामपाहरत् । तेन दुष्कर्मणा तत्प्राणा राज्यं कुलञ्च सकलं प्रणष्टम् । तथा हरिश्चन्द्रो राजा निजभार्यामपि नीचगृहे व्यक्रीणीत | स्वयमपि चाण्डालस्य जलवाहकोऽभूत् । एवं जगदेकवीराः पाण्डवा अपि द्यूते सुशीलां पत्नी द्रौपदी हारितवन्तः। तथा त्रिभुवनविजयी सकललोकपालस्तबन्धुः कृष्णोऽपि तत्र विपदि पाण्डवान्न रक्षितवान् । किञ्च- नलराजोऽपि निजप्रेयसी दमयन्तीमेकाकिनी वने मुक्तवान् स्वयमन्यत्र गतवांश्च । भो भो लोका! ईदृशेष्वपि महापुरुषेषु यदीदृशा दोषा आपेतुस्तर्हि पामरजनानां का गणना ?||ll अथ ३-लीगुणदोष-विषये,उपजाति-वृत्तम्सुसीख आले प्रियचित्त चाले, जे शील पाले गृहचिंत टाले । दानादि जेणे गृहधर्म होई, ते गेहि नित्ये घर लक्ष्मि सोई ॥१०॥ ___ या कुलवधूरस्ति सा भर्तुः सदैव सानन्दयति, भर्तारं हिते नियोजयति, तथाऽऽजन्म शुद्धं शीलगुणं परिपालयति, गार्हस्थ्यं धर्मञ्च सम्यगवति, गृहकृत्ये च तत्परा तिष्ठति, गुरुजनानुपास्ते । ईदृशी गृहिणी यस्य भवति तस्यैव धन्यस्य गृहे लक्ष्मीरपि सुस्थिरा विलसति । चत्वारः पुमर्था अपि तत्र वर्धन्ते, अतः सकलाभिर्ललनाभिरीदृशीभिरेव भाव्यम् ||१०|| 299
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy