SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली धनमत्यल्पं विद्यते,अतोऽत्रापणे कोऽपिव्यापारः कर्त्तव्य इति निश्चित्य स तत्र व्यापर्तुमचलत्तदा राज्यवक्- स्वामिन् ! ममैकाकिन्या अत्र मनोन लगिष्यति। तदा सोऽवगिदानीमेव कञ्चन योग्यपुरुषमत्रानयामि, यथा ते मनोविनोदो भविष्यतीत्याभाष्य स आपणे समायातः । तावत्तत्रैकः पङ्गुरागतस्तस्य स्वरमाधुर्यमालोक्य तमवक्- अरे ! ते भोजनवसनादिकं दास्यामि, त्वं मद्गृहे तिष्ठ, तेनापि तद्वचः प्रतिपन्नम्। तदा तं निजगृहे समानीय स्त्रियमवदत्- हे वल्लभे ! एष पङ्गुरानीत एष ते समीपे सदा स्थास्यति । अनेन सहालप्य गायनञ्चास्य श्रुत्वा सुखेन दिनं निर्गमयाहमापणे व्रजामि । ततस्तं तत्र संस्थाप्य स्वयमापणे व्यापारे लग्नः सा च तेन पडना सहालपति तस्य मधुरस्वरं गानं शृणोति । ततस्तौ द्वावेव तत्र गृहे तिष्ठन्तौ मिथो रागिणौ बभूवतुः । अथैकदा सर्वाङ्गव्याप्तमदनपीडिता सुकुमालिका राज्ञी पगुमवदत्- हे पङ्गो ! त्वं मेऽतिप्रेयानसि, त्वयि मे महान् रागो जातोऽस्ति । मदनश्च मामधिकं बाधतेऽतो मां स्वैरं भुझ्व, तेनोक्तमहं ते भर्तुर्बिभेमि । तयोक्तम्-ततः कामपि भीति मा कृथाः, स तु सदैवाऽऽपण एव तिष्ठति । आवयोरेतत्स्वरूपं स कदापि न ज्ञास्यति, ततस्तेन पगुना स्वैरं रममाणा सा राज्ञी तस्मिन्नेवानुरागिणी बभूव । अथैकदा कुत्रचिन्महोत्सवे बहवो लोका नदीतीरमगुस्तदा राज्ञी राजानमवक्- हे नाथ ! आवामपि कुत्रापि छनप्रदेशे स्थित्वा द्रक्ष्याव एनं महोत्सवम् । अथ तौ दम्पती नदीतीरं गत्वा कुत्रापि निर्जने गङ्गाकूले समुपविष्टौ । इतस्ततो विलोक्य विरक्ता सा राज्ञी 258
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy