SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तत एकदा हृतसर्वस्वाः सर्वे लोका मिलित्वा मूलदेवनृपपार्श्वमेत्य तत्स्वरूपं व्यजिज्ञपन् । तदा स मूलदेवो नृपस्तच्चौरग्रहणाय सकले पुरे पटहं वादितवान् परं कोऽपि चौरग्रहणाय पटहं न स्पृष्टवान् । तदा राजा स्वयमेव चौरनिग्रहप्रतिज्ञां विधाय पटहमस्पृशत् । ततो राजा रात्रौ नानावेषेण सर्वत्र बभ्राम | अथैकस्यां रात्रौ कस्यचित्तापसस्याऽऽश्रमान्तिके महारङ्कवेषेण गुप्तासिः सुष्वाप । तत्र भारवाहिजिघृक्षया स मण्डीकचौरः समागत्य तमुत्थापितवान् । तदा तेन सह चोरितधनग्रन्थिं मस्तके निधाय भारवाहवेषी नृपोऽचलत् । गृहागतश्चौरो ग्रन्थिमुत्तार्य भगिनीमवक्- भगिनि ! एनं पादशौचादिकं कारय । ततस्तं तत्र कूपतटे समानीतवती, पादं प्रक्षालयन्ती सा तन्मृदुत्वं जानन्ती दध्यौन ह्यसौ भारवाही कोऽप्यसावुत्तमः पुमाँल्लक्ष्यते, अतोऽसौ कूपे न पात्यः किन्तु रक्षणीय इति विमृश्य साऽवक्- हे महाभाग ! त्वमितः सत्वरं पलायस्व नो चेत्त्वामत्र कूपे पातयिष्यामि । अथ नष्टे राज्ञि किञ्चिद्विरम्य तया पूच्चक्रे - हे भ्रातः ! भारवाही पलायितः, धावस्व-धावस्व गृहाण - गृहाण इति श्रुत्वा सोऽपि खड्गपाणिस्तदनु जवादधावत । अनुपदमायान्तं तमालोक्य महता जवेन धावमानः क्षितीशो झटित्येव निजसदनमागत्य सुष्वाप । तस्याऽनुपृष्ठमागतश्चौरस्तत्र नृपद्वारे पुरुषाकारं स्थितं शिलास्तम्भं तद्भ्रान्त्या जघान । ततः कृतकृत्यो भवन्निव स चौरः स्वस्थानमागात्प्रभाते च पूर्ववत्तत्रागत्य सीवनादि - कृत्यं कर्त्तुं लग्नः । अथ राजा निजपुरुषेण तमाह्वयत्तेन शङ्कमानश्चौरो नृपान्तिक -255
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy