SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अतो यदाऽसौ राजा सेटकषोडशांशपरिमितं सपादं हृद्यं मांसं भुञ्जीत, तदाऽऽरोग्यं लब्धुं शक्यते । अत आगतोऽस्मि राजाने त्वयोक्तं मांससौलभ्यमिति तत्तावन्मितं हृदयमांसं देहि । यत्सत्वरं राजानं नीरोगं कुर्याम् । तदाकर्ण्य राजमान्योऽपि सोऽवदत्- हे नाथ ! एतत्तु दुष्करमस्ति, अहं धनं ददामि मांसं त्वन्यत एव लात्वा कार्य साधय, यतस्त्वं मतिमतामग्रेसरोऽसि मां मुञ्च । तदा पुनरुक्तमभयकुमारेणभो ! राज्ञस्तु मांसापेक्षा वर्तते तद्दीयताम् । तदा पुनः सोऽवक्-एवं मा कुरु मत्तो लक्षमितं द्रविणं गृहाण। ततोऽन्ते लक्षद्वयमुद्रां लात्वा कुमारोऽपरगृहमागत्य तथैव तमप्यवादीत, तेनापि कुमारमधिकमननीय मांसमदत्त्वा तावदेव धनमदायि । इत्थं सकलराजमान्यश्रीमद्गृहाणि गत्वा मांसव्याजादनेकलक्षमुद्रां गृहीत्वा निशान्ते गृहमाययौ । प्रभाते च कुमारो राजसभामागतः, तदा सर्वे ते समागता राजानमनामयमपृच्छन् । नृपस्तदा सविस्मयः कुमारमुखमालोकत। तत्रावसरे कुमारोऽवदद् महाराज! गतेऽहनि सदस्येते सर्वेमांससौलभ्यं जगदुः । अतोऽहं रात्रौ सर्वेषां गृहाणि गत्वा मांसं याचितवान्, केनापि तन्न दत्तं सर्वे यथेष्टधनवितरणमेव चक्रुः । राजन् ! यदि मांसं सुलभ भवेत्तर्हि भवदर्थं सेटकस्य षोडशांशपरिमिते सपादे हृदयमांसे मार्गितेऽपि लक्षद्विलक्षधनानि कथमेतेऽदुः ? तदाकर्णयन्तस्ते सर्वे त्रपाऽवनतमूर्धान एव तस्थुः, केऽप्यभिमुखं द्रष्टुं न शेकुः । तदैव सर्वे 1. सेर । 250
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy