SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली पृच्छत् । बहुधा पृष्टोऽपि स किमपि नोत्ततार | तत्रावसरे केनिचदुक्तम्हे स्वामिन् ! स गुणसुन्दरः पुण्यसारस्य महान् स्नेही वर्तते, तादृशं मित्रं तस्याऽत्र कोऽपि नास्ति । अत एनमादिश, स तदन्तिकं गत्वा कारणं पृच्छेन्निवारयेच्च । तदाकर्ण्य नृपेणोक्तम्- भोः पुण्यसार ! तव मित्रं किमर्थं म्रियते ? तदेनं पृच्छ निवारय च । अथ राजादिष्टः पुण्यसारस्तत्पार्धमागत्य तमवक्- हे मित्र ! तव किमभूयेन यौवन एव मुमूर्षसि ? तत्कारणं वद येन तदुपायं कुर्याम् । असति प्रतीकारेऽहमपि त्वया सहैव मरिष्यामि, क्षणमपि ते वियोगो मया नैव सह्यते । तदा चिरं निःश्वस्य सोऽवक्- हे मित्र ! मम यद्भूतं तस्य प्रकाशेनाऽपि किं स्यात्? अत एतद्विषये किमपि मा पृच्छ । पुण्यसारेण पुनरुक्तम्- भो ! यदि मां मित्रं जानासि तर्हि रहस्यगोपनं सर्वथा नैव युज्यते । यदुक्तम्प्रीति तहां पडदो नहीं, पडदो तहां शी प्रीत । प्रीति बिचे पड़दो करे, वही बडी विपरीत ॥१३॥ इत्याकर्ण्य तेनोक्तम्- हे मित्र ! त्वं मे महामित्रमसि | त्वं महताग्रहेण पृच्छसि तेन त्वां निजेदृशदुःखस्य कारणं वच्मि, शनैः शनैः कर्णे न्यगदत्-कुड्ये यदलेखीस्तत्स्मर्यते न वा ? तन्निशम्य पुण्यसारोऽप्यवदत्-सत्यमेव मयाऽलेखि | तत्रावसरे सर्वमादितो यथा जातं तथा सा जगाद | सर्वं श्रुत्वा पुण्यसारस्तदैव स्वगृहाद् स्त्रीपरिधानीयवस्त्रमानाय्य तस्यै समार्पयत् । मूलतत्त्वं विदन्तः सर्वे नृपादय आश्चर्यमापुः । . तत्रावसरे रत्नसारः श्रेष्ठी नृपं व्यजिज्ञपत्स्वामिन् ! मम 246
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy