SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली । अतः साधुजनैः सह कृता मैत्री सदैव सुखदा भवति कदापि दुःखदो न जायते | यदुक्तम्साधु मिले सुख ऊपजे, तोय मिले मल जाय । सामाने पावन करे, पोते पावन थाय अतः साधुमैत्री हेमोपमा ज्ञातव्या । यथा-हेम्नो दहनादिसंतापे कृतेऽपि जात्वपि स्वगुणं न त्यजति, किन्त्वधिकं द्योतते तथा साधुजनमैत्री जातेऽप्यपराधे न हीयते, लेशतोऽपि द्वेषं नोत्पादयति, प्रत्युत संयमगुणा एधन्ते। किञ्च-साधवोऽपकर्तुरपि गुणानेव ख्यापयन्ति परीषहसहने तत्कृतसाहाय्यं मन्वते । अपि च पूर्णचन्द्रोदयात्सागरो यथा वर्धते तथा जलयोगाच्चन्द्रकला नितरांशोभते। इत्थं चन्द्रसागरयोः स्नेह इव साधुजनमैत्री प्रतिदिवसमेधते इति तात्पर्यार्थः ||२०|| ७-साधुजनमित्रतोपरि सहसमल्ल साधोः प्रबन्धः यथा-पुराऽवन्तीनगरे जितशत्रुनृपस्य पार्चे वीरसेननामा कश्चन क्षत्री जीविकायै समायातस्तस्य तत्र सेवायां महान् कालो यातः । अत्रान्तरे राज्ञः कालसन्दीपननामा रिपुरासीत्, सनिर्बुद्धिः परमाभिमानी राज्ञः प्रणामं तदादेशञ्च न चिकीर्षति । अत एकदा राजा सदसि सर्वसम्यानवोचत-भो भो ! वीरा ! यो हि कालसन्दीपनं गृहीत्वाऽत्राऽऽनेष्यति तस्मै सत्पारितोषिकं दास्यामि, परं कोऽपि तन्नाङ्ग्यकरोत् । तदैव वैदेशिको वीरसेनो नृपं जगाद-अहमेकाक्येव तमत्र समानेतुं शक्नोमि । राजाऽवक्-तर्हि गच्छ सत्वरमत्राऽऽनय, ततो नृपादेशात्स तत्र गत्वा छलप्रपञ्चादिना -229
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy